01.189
Pancharatra: Vyasa explains the background behind Pandavas and Draupadi.
व्यास उवाच॥
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते। तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥१-१८९-१॥
ततो यमो दीक्षितस्तत्र राज; न्नामारयत्किञ्चिदपि प्रजाभ्यः। ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ॥१-१८९-२॥
ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च। प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ॥१-१८९-३॥
ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या। तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ॥१-१८९-४॥
ब्रह्मोवाच॥
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः। मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥१-१८९-५॥
देवा ऊचुः॥
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन। अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥१-१८९-६॥
ब्रह्मोवाच॥
वैवस्वतो व्यापृतः सत्रहेतो; स्तेन त्विमे न म्रियन्ते मनुष्याः। तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ॥१-१८९-७॥
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता। सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ॥१-१८९-८॥
व्यास उवाच॥
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते। समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ॥१-१८९-९॥
दृष्ट्वा च तद्विस्मितास्ते बभूवु; स्तेषामिन्द्रस्तत्र शूरो जगाम। सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ॥१-१८९-१०॥
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत्। तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ॥१-१८९-११॥
तदद्भुतं प्रेक्ष्य वज्री तदानी; मपृच्छत्तां योषितमन्तिकाद्वै। का त्वं कथं रोदिषि कस्य हेतो; र्वाक्यं तथ्यं कामयेह ब्रवीहि ॥१-१८९-१२॥
स्त्र्युवाच॥
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या। आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥१-१८९-१३॥
व्यास उवाच॥
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम्। सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥१-१८९-१४॥
तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम्। ईशोऽहमस्मीति समन्युरब्रवी; द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥१-१८९-१५॥
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत। संस्तम्भितोऽभूदथ देवराज; स्तेनेक्षितः स्थाणुरिवावतस्थे ॥१-१८९-१६॥
यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच। आनीयतामेष यतोऽहमारा; न्मैनं दर्पः पुनरप्याविशेत ॥१-१८९-१७॥
ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्। तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ॥१-१८९-१८॥
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम्। विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ॥१-१८९-१९॥
स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श। स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥१-१८९-२०॥
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच। दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥१-१८९-२१॥
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात्। स्रस्तैरङ्गैरनिलेनेव नुन्न; मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥१-१८९-२२॥
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः। उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥१-१८९-२३॥
तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति। एतेऽप्येवं भवितारः पुरस्ता; त्तस्मादेतां दरिमाविश्य शेध्वम् ॥१-१८९-२४॥
शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम्। तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ॥१-१८९-२५॥
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम्। सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ॥१-१८९-२६॥
पूर्वेन्द्रा ऊचुः॥
गमिष्यामो मानुषं देवलोका; द्दुराधरो विहितो यत्र मोक्षः। देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ॥१-१८९-२७॥
व्यास उवाच॥
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह। वीर्येणाहं पुरुषं कार्यहेतो; र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥१-१८९-२८॥
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम्। तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ॥१-१८९-२९॥
तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम्। स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्बभूवुर्धरण्याम् ॥१-१८९-३०॥
स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम्। तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च ॥ तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः सम्बभूव ॥१-१८९-३१॥
ये ते पूर्वं शक्ररूपा निरुद्धा; स्तस्यां दर्यां पर्वतस्योत्तरस्य। इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ॥१-१८९-३२॥
एवमेते पाण्डवाः सम्बभूवु; र्ये ते राजन्पूर्वमिन्द्रा बभूवुः। लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ॥१-१८९-३३॥
कथं हि स्त्री कर्मणोऽन्ते महीतला; त्समुत्तिष्ठेदन्यतो दैवयोगात्। यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥१-१८९-३४॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च। दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥१-१८९-३५॥
वैशम्पायन उवाच॥
ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः। चक्षुर्दिव्यं प्रददौ तान्स सर्वा; न्राजापश्यत्पूर्वदेहैर्यथावत् ॥१-१८९-३६॥
ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान्। बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ॥१-१८९-३७॥
दिव्यैर्वस्त्रैररजोभिः सुवर्णै; र्माल्यैश्चाग्र्यैः शोभमानानतीव। साक्षात्त्र्यक्षान्वसवो वाथ दिव्या; नादित्यान्वा सर्वगुणोपपन्नान् ॥ तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा; न्प्रीतो राजा द्रुपदो विस्मितश्च ॥१-१८९-३८॥
दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च। योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥१-१८९-३९॥
स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य। नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ॥१-१८९-४०॥
व्यास उवाच॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः। नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥१-१८९-४१॥
तोषयामास तपसा सा किलोग्रेण शङ्करम्। तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥१-१८९-४२॥
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम्। पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥१-१८९-४३॥
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा। पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः ॥१-१८९-४४॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत। एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ॥ तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥१-१८९-४५॥
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः। तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ॥ देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥१-१८९-४६॥
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी। पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥१-१८९-४७॥
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे। सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥१-१८९-४८॥
सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा। सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥१-१८९-४९॥