Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.190
Core-Pancharatra: Draupadi weds Pandavas.
द्रुपद उवाच॥
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत्। न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ॥१-१९०-१॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किञ्चित्। कृतं निमित्तं हि वरैकहेतो; स्तदेवेदमुपपन्नं बहूनाम् ॥१-१९०-२॥
यथैव कृष्णोक्तवती पुरस्ता; न्नैकान्पतीन्मे भगवान्ददातु। स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ॥१-१९०-३॥
यदि वायं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः। गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ॥१-१९०-४॥
वैशम्पायन उवाच॥
ततोऽब्रवीद्भगवान्धर्मराज; मद्य पुण्याहमुत पाण्डवेय। अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥१-१९०-५॥
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम्। समानयामास सुतां च कृष्णा; माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥१-१९०-६॥
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च। द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ॥१-१९०-७॥
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम्। महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ॥१-१९०-८॥
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः। महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ॥१-१९०-९॥
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो। क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ॥१-१९०-१०॥
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम्। युधिष्ठिरं चाप्युपनीय मन्त्रवि; न्नियोजयामास सहैव कृष्णया ॥१-१९०-११॥
प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः। ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ॥१-१९०-१२॥
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम्। अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ॥१-१९०-१३॥
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम्। महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ॥१-१९०-१४॥
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम्। शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ॥१-१९०-१५॥
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम्। तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ॥१-१९०-१६॥
पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम्। तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ॥१-१९०-१७॥
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम्। विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ॥१-१९०-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.