01.197
Core-Pancharatra: Vidura asks Dhritarastra to follow the advice of Bheeshma and Drona.
विदुर उवाच॥
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः। न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ॥१-१९७-१॥
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः। भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥१-१९७-२॥
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम्। तच्च राधासुतः कर्णो मन्यते न हितं तव ॥१-१९७-३॥
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम्। आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥१-१९७-४॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च। समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥१-१९७-५॥
धर्मे चानवमौ राजन्सत्यतायां च भारत। रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥१-१९७-६॥
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन। न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥१-१९७-७॥
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि। न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥१-१९७-८॥
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप। त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥ इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥१-१९७-९॥
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम्। एतद्धि परमं श्रेयो मेनाते तव भारत ॥१-१९७-१०॥
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव। तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥१-१९७-११॥
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः। मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥१-१९७-१२॥
अथ ते हृदये राजन्विशेषस्तेषु वर्तते। अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥१-१९७-१३॥
एतदर्थमिमौ राजन्महात्मानौ महाद्युती। नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥१-१९७-१४॥
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ। तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥१-१९७-१५॥
कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः। शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ॥
भीमसेनो महाबाहुर्नागायुतबलो महान्। कथं हि युधि शक्येत विजेतुममरैरपि ॥१-१९७-१७॥
तथैव कृतिनौ युद्धे यमौ यमसुताविव। कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥१-१९७-१८॥
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः। नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥१-१९७-१९॥
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः। किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥१-१९७-२०॥
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः। धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥१-१९७-२१॥
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत। दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥१-१९७-२२॥
इदं निर्दिग्धमयशः पुरोचनकृतं महत्। तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥१-१९७-२३॥
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा। तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥१-१९७-२४॥
बलवन्तश्च दाशार्हा बहवश्च विशां पते। यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥१-१९७-२५॥
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप। को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥१-१९७-२६॥
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः। बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥१-१९७-२७॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥१-१९७-२८॥
उक्तमेतन्मया राजन्पुरा गुणवतस्तव। दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥१-१९७-२९॥