Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.196
Core-Pancharatra: Drona concurs with Bheeshma.
द्रोण उवाच॥
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप। धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥१-१९६-१॥
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः। संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥१-१९६-२॥
प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः। बहुलं रत्नमादाय तेषामर्थाय भारत ॥१-१९६-३॥
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु। वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥१-१९६-४॥
सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा। असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥१-१९६-५॥
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्। पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥१-१९६-६॥
हिरण्मयानि शुभ्राणि बहून्याभरणानि च। वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ॥१-१९६-७॥
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ। पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥१-१९६-८॥
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह। उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥१-१९६-९॥
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्। दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥१-१९६-१०॥
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया। प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥१-१९६-११॥
एवं तव महाराज तेषु पुत्रेषु चैव ह। वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥१-१९६-१२॥
कर्ण उवाच॥
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ। न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥१-१९६-१३॥
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना। ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥१-१९६-१४॥
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा। विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥१-१९६-१५॥
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः। ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥१-१९६-१६॥
श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः। आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥१-१९६-१७॥
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः। अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥१-१९६-१८॥
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा। स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥१-१९६-१९॥
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च। आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥१-१९६-२०॥
तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत। तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥१-१९६-२१॥
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च। यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥१-१९६-२२॥
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता। यदि ते विहितं राज्यं भविष्यति विशां पते ॥१-१९६-२३॥
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम्। अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥१-१९६-२४॥
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्। दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥१-१९६-२५॥
द्रोण उवाच॥
विद्म ते भावदोषेण यदर्थमिदमुच्यते। दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥१-१९६-२६॥
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम्। अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥१-१९६-२७॥
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्। कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ॥१-१९६-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.