01.198
Core-Pancharatra: Vidura invites Pandavas to Hastinapura.
धृतराष्ट्र उवाच॥
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः। हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥१-१९८-१॥
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः। तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥१-१९८-२॥
यथैव मम पुत्राणामिदं राज्यं विधीयते। तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥१-१९८-३॥
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्। तया च देवरूपिण्या कृष्णया सह भारत ॥१-१९८-४॥
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा। दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥१-१९८-५॥
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः। दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥१-१९८-६॥
वैशम्पायन उवाच॥
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्। सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥१-१९८-७॥
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः। द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥१-१९८-८॥
स चापि प्रतिजग्राह धर्मेण विदुरं ततः। चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥१-१९८-९॥
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत। स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥१-१९८-१०॥
तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम्। वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥१-१९८-११॥
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्। प्रददौ चापि रत्नानि विविधानि वसूनि च ॥१-१९८-१२॥
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते। द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥१-१९८-१३॥
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः। द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥१-१९८-१४॥
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम। धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥१-१९८-१५॥
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः। प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥१-१९८-१६॥
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः। कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥१-१९८-१७॥
भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव। समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥१-१९८-१८॥
धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान्। कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥१-१९८-१९॥
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता। यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥१-१९८-२०॥
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्। द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥१-१९८-२१॥
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः। उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥१-१९८-२२॥
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः। द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥१-१९८-२३॥
स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम्। गमनं सहदाराणामेतदागमनं मम ॥१-१९८-२४॥
विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु। ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्॥ आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया॥१-१९८-२५॥