01.208
Pancharatra: Arjuna's piligramage to South and encounter with crocodile.
वैशम्पायन उवाच॥
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥१-२०८-१॥
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥१-२०८-२॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारन्धमं प्रसन्नं च हयमेधफलं च यत् ॥ भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥१-२०८-३॥
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥१-२०८-४॥
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥१-२०८-५॥
तापसा ऊचुः॥
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥१-२०८-६॥
वैशम्पायन उवाच॥
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥१-२०८-७॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ॥१-२०८-८॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥१-२०८-९॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥१-२०८-१०॥
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता ॥१-२०८-११॥
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥१-२०८-११॥
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥१-२०८-१२॥
का वै त्वमसि कल्याणि कुतो वासि जलेचरी । किमर्थं च महत्पापमिदं कृतवती पुरा ॥१-२०८-१३॥
नार्युवाच॥
अप्सरास्मि महाबाहो देवारण्यविचारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥१-२०८-१४॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः । ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥१-२०८-१५॥
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥१-२०८-१६॥
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् । आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥१-२०८-१७॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् । अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥१-२०८-१८॥
अहं च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥१-२०८-१९॥
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । स च नास्मासु कृतवान्मनो वीर कथञ्चन ॥ नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥१-२०८-२०॥
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥१-२०८-२१॥