01.207
Pancharatra: Arjuna weds Chitrangade after agreeing to Putrika contract.
वैशम्पायन उवाच॥
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत । प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥१-२०७-१॥
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् । भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥१-२०७-२॥
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च । निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥१-२०७-३॥
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥१-२०७-४॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥१-२०७-५॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः । नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥१-२०७-६॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् । महानदीं गयां चैव गङ्गामपि च भारत ॥१-२०७-७॥
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् । आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥१-२०७-८॥
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् । जगाम तानि सर्वाणि तीर्थान्यायतनानि च ॥ दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥१-२०७-९॥
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥१-२०७-१०॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः । सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥१-२०७-११॥
स कलिङ्गानतिक्रम्य देशानायतनानि च । धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥१-२०७-१२॥
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् । समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥१-२०७-१३॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥ मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥१-२०७-१४॥
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥१-२०७-१५॥
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ॥ तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥१-२०७-१६॥
राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह । अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥१-२०७-१७॥
उग्रेण तपसा तेन प्रणिपातेन शङ्करः । ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥१-२०७-१८॥
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले । एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥१-२०७-१९॥
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे । कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥१-२०७-२०॥
पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ॥१-२०७-२१॥
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥१-२०७-२२॥
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च । उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥१-२०७-२३॥