Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.209
Pancharatra: Background behind crocodile curse. Birth of Babruvahana.
वर्गोवाच॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम । आयाम शरणं विप्रं तं तपोधनमच्युतम् ॥१-२०९-१॥
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥१-२०९-२॥
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन । यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥१-२०९-३॥
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः । तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ॥१-२०९-४॥
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते । सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥१-२०९-५॥
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् । शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥१-२०९-६॥
वैशम्पायन उवाच॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् । प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥१-२०९-७॥
ब्राह्मण उवाच॥
शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् । परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ॥१-२०९-८॥
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले । उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ॥१-२०९-९॥
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ । अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥१-२०९-१०॥
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ॥१-२०९-११॥
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥१-२०९-११॥
वर्गोवाच॥
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् । अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ॥१-२०९-१२॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् । समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥
ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत । दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥१-२०९-१४॥
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् । अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ॥१-२०९-१५॥
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् । श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥१-२०९-१६॥
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥१-२०९-१७॥
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः । मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥१-२०९-१८॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः । तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ॥१-२०९-१९॥
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः । कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥१-२०९-२०॥
वैशम्पायन उवाच॥
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते । तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥१-२०९-२१॥
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् । तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ॥१-२०९-२२॥
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः । चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥१-२०९-२३॥
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् । तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ॥१-२०९-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.