Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.211
Pancharatra: Krishna notices Arjuna's desire for Bhadra and asks him to abduct her.
वैशम्पायन उवाच॥
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ। वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥१-२११-१॥
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः। भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥१-२११-२॥
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः। स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥१-२११-३॥
वादित्राणि च तत्र स्म वादकाः समवादयन्। ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥१-२११-४॥
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः। यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥१-२११-५॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथा। सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥१-२११-६॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः। अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥१-२११-७॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्। उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥१-२११-८॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ। दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥१-२११-९॥
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः। निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥१-२११-१०॥
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ। हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥१-२११-११॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्। तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥१-२११-१२॥
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे। वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥१-२११-१३॥
तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम्। अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥१-२११-१४॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत। तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥१-२११-१५॥
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत। वनेचरस्य किमिदं कामेनालोड्यते मनः ॥१-२११-१६॥
ममैषा भगिनी पार्थ सारणस्य सहोदरा। यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥१-२११-१७॥
अर्जुन उवाच॥
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा। रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ॥१-२११-१८॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्। यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥१-२११-१९॥
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन। आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥१-२११-२०॥
वासुदेव उवाच॥
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ। स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥१-२११-२१॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते। विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥१-२११-२२॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम। हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥१-२११-२३॥
वैशम्पायन उवाच॥
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्। शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥१-२११-२४॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै। श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥१-२११-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.