01.212
Pancharatra: Arjuna abduct Subhadra bringing Vishni and Andhakas to their knees.
वैशम्पायन उवाच॥
ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः। गतां रैवतके कन्यां विदित्वा जनमेजय ॥१-२१२-१॥
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्। कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥१-२१२-२॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि। सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥१-२१२-३॥
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना। ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥१-२१२-४॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्। मृगयाव्यपदेशेन यौगपद्येन भारत ॥१-२१२-५॥
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम्। दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥१-२१२-६॥
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति। तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥१-२१२-७॥
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम्। रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥१-२१२-८॥
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः। विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥१-२१२-९॥
ते समासाद्य सहिताः सुधर्मामभितः सभाम्। सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥१-२१२-१०॥
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः। समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥१-२१२-११॥
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा। अन्नपानमपास्याथ समापेतुः सभां ततः ॥१-२१२-१२॥
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च। मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥१-२१२-१३॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः। सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥१-२१२-१४॥
तेषां समुपविष्टानां देवानामिव संनये। आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥१-२१२-१५॥
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः। अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥१-२१२-१६॥
योजयध्वं रथानाशु प्रासानाहरतेति च। धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥१-२१२-१७॥
सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च। स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥१-२१२-१८॥
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च। अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ॥१-२१२-१९॥
वनमाली ततः क्षीबः कैलासशिखरोपमः। नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥१-२१२-२०॥
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने। अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ॥१-२१२-२१॥
एष तावदभिप्रायमाख्यातु स्वं महामतिः। यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥१-२१२-२२॥
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्। तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥१-२१२-२३॥
समं वचो निशम्येति बलदेवस्य धीमतः। पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥१-२१२-२४॥
ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम्। किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥१-२१२-२५॥
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत। न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥१-२१२-२६॥
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति। मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥१-२१२-२७॥
ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन्। को हि नाम भवेनार्थी साहसेन समाचरेत् ॥१-२१२-२८॥
सोऽवमन्य च नामास्माननादृत्य च केशवम्। प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥१-२१२-२९॥
कथं हि शिरसो मध्ये पदं तेन कृतं मम। मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥१-२१२-३०॥
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम्। न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥१-२१२-३१॥
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्। अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥१-२१२-३२॥