01.210
Pancharatra: Arjuna meets Krishna at Prabhasa and visits Dwaraka.
वैशम्पायन उवाच॥
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च । सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥१-२१०-१॥
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च । तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥१-२१०-२॥
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् । तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥१-२१०-३॥
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः । ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥१-२१०-४॥
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने । आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥१-२१०-५॥
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत । किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥१-२१०-६॥
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा । श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥१-२१०-७॥
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ । महीधरं रैवतकं वासायैवाभिजग्मतुः ॥१-२१०-८॥
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् । पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ॥१-२१०-९॥
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः । सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥१-२१०-१०॥
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः । सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥१-२१०-११॥
तीर्थानां दर्शनं चैव पर्वतानां च भारत । आपगानां वनानां च कथयामास सात्वते ॥१-२१०-१२॥
स कथाः कथयन्नेव निद्रया जनमेजय । कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥१-२१०-१३॥
मधुरेण स गीतेन वीणाशब्देन चानघ । प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥१-२१०-१४॥
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः । रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥१-२१०-१५॥
अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥१-२१०-१६॥
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः । नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥१-२१०-१७॥
अवलोकेषु नारीणां सहस्राणि शतानि च । भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥१-२१०-१८॥
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः । अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥१-२१०-१९॥
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः । समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥१-२१०-२०॥
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥१-२१०-२१॥