01.217
Pancharatra: Kandavaforest set on fire protected by Arjuna and Krishna.
वैशम्पायन उवाच॥
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ। दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥१-२१७-१॥
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः। पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥१-२१७-२॥
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात्। आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥१-२१७-३॥
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः। उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥१-२१७-४॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे। स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥१-२१७-५॥
समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे। त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥१-२१७-६॥
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः। तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥१-२१७-७॥
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले। तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥१-२१७-८॥
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत। गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥१-२१७-९॥
शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः। अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ॥१-२१७-१०॥
तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः। दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥१-२१७-११॥
ते शराचितसर्वाङ्गा विनदन्तो महारवान्। ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥१-२१७-१२॥
शरैरभ्याहतानां च दह्यतां च वनौकसाम्। विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥१-२१७-१३॥
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः। जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥१-२१७-१४॥
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः। शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥१-२१७-१५॥
देवा ऊचुः॥
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना। कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥१-२१७-१६॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च। खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥१-२१७-१७॥
महताऽ मेघजालेन नानारूपेण वज्रभृत्। आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥१-२१७-१८॥
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः। अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥१-२१७-१९॥
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः। ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥१-२१७-२०॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा। पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥१-२१७-२१॥
अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम्। बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥१-२१७-२२॥