01.218
Pancharatra: Fearse war between Shakra and the dual Arjuna and Krishna.
वैशम्पायन उवाच॥
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत्। शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥१-२१८-१॥
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः। छादयामास तद्वर्षमपकृष्य ततो वनात् ॥१-२१८-२॥
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः। सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ॥१-२१८-३॥
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः। दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥१-२१८-४॥
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली। स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥१-२१८-५॥
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः। मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥१-२१८-६॥
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते। ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥१-२१८-७॥
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः। शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥१-२१८-८॥
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्। मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥१-२१८-९॥
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः। द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥१-२१८-१०॥
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम्। पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥१-२१८-११॥
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः। योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥१-२१८-१२॥
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम्। स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥१-२१८-१३॥
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान्। वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥१-२१८-१४॥
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्। वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥१-२१८-१५॥
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्। जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥१-२१८-१६॥
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः। सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥१-२१८-१७॥
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः। प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥१-२१८-१८॥
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः। समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥१-२१८-१९॥
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा। प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ॥१-२१८-२०॥
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः। उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥१-२१८-२१॥
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान्। विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥१-२१८-२२॥
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः। उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥१-२१८-२३॥
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः। कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥१-२१८-२४॥
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम्। प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥१-२१८-२५॥
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा। दैत्यदानवसङ्घानां चकार कदनं महत् ॥१-२१८-२६॥
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा। वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥१-२१८-२७॥
ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः। पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥१-२१८-२८॥
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत्। हतावेताविति प्राह सुरानसुरसूदनः ॥१-२१८-२९॥
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्। जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥१-२१८-३०॥
कालदण्डं यमो राजा शिबिकां च धनेश्वरः। पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥१-२१८-३१॥
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि। जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥१-२१८-३२॥
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः। अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥१-२१८-३३॥
प्रगृह्य परिघं घोरं विचचारार्यमा अपि। मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥१-२१८-३४॥
पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते। आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥१-२१८-३५॥
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः। विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥१-२१८-३६॥
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ। कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥१-२१८-३७॥
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे। युगान्तसमरूपाणि भूतोत्सादाय भारत ॥१-२१८-३८॥
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ। अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥१-२१८-३९॥
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः। न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥१-२१८-४०॥
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः। भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥१-२१८-४१॥
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च। आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥१-२१८-४२॥
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे। बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥१-२१८-४३॥
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः। भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ॥ तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥१-२१८-४४॥
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः। भूयः संवर्धयामास तद्वर्षं देवराडथ ॥१-२१८-४५॥
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः। विलयं गमयामास हर्षयन्पितरं तदा ॥१-२१८-४६॥
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत्। सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥१-२१८-४७॥
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः। बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥१-२१८-४८॥
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ। सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥१-२१८-४९॥
तेनावाक्पतता दावे शैलेन महता भृशम्। भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥१-२१८-५०॥