01.216
Pancharatra: Arjuna gets two inexhaustible quivers, gandiva, and a chariot. Krishna gets is disk and the Koumodaki club.
वैशम्पायन उवाच॥
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः। चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥ आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥१-२१६-१॥
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्। तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ॥ चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥१-२१६-२॥
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते। तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥१-२१६-३॥
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति। चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ॥ ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥१-२१६-४॥
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम्। सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ॥ सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥१-२१६-५॥
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्। चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥१-२१६-६॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः। प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥१-२१६-७॥
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम्। उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥ पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥१-२१६-८॥
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः। भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥१-२१६-९॥
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः। प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥१-२१६-१०॥
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः। नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥१-२१६-११॥
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा। तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥१-२१६-१२॥
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः। विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥१-२१६-१३॥
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च। नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ॥१-२१६-१४॥
स तं नानापताकाभिः शोभितं रथमुत्तमम्। प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥१-२१६-१५॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्। आरुरोह रथं पार्थो विमानं सुकृती यथा ॥१-२१६-१६॥
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा। गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ॥१-२१६-१७॥
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान्। जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥१-२१६-१८॥
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह। येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥१-२१६-१९॥
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी। बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥१-२१६-२०॥
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः। आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥१-२१६-२१॥
अब्रवीत्पावकश्चैनमेतेन मधुसूदन। अमानुषानपि रणे विजेष्यसि न संशयः ॥१-२१६-२२॥
अनेन त्वं मनुष्याणां देवानामपि चाहवे। रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ॥ भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥१-२१६-२३॥
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु। हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥१-२१६-२४॥
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम्। दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥१-२१६-२५॥
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ। कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥१-२१६-२६॥
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः। किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥१-२१६-२७॥
अर्जुन उवाच॥
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान्। त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥१-२१६-२८॥
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी। अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥१-२१६-२९॥
सर्वतः परिवार्यैनं दावेन महता प्रभो। कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥१-२१६-३०॥
वैशम्पायन उवाच॥
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च। तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥१-२१६-३१॥
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा। ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥१-२१६-३२॥
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ। मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥१-२१६-३३॥
दह्यतस्तस्य विबभौ रूपं दावस्य भारत। मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥१-२१६-३४॥