01.219
Pancharatra: Except for Ashvasena, Maya, and four Sharangas none escaped Kandava fire.
वैशम्पायन उवाच॥
तथा शैलनिपातेन भीषिताः खाण्डवालयाः। दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥ द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥१-२१९-१॥
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा। समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥१-२१९-२॥
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ। उत्पातनादशब्देन सन्त्रासित इवाभवन् ॥१-२१९-३॥
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः। तेन ता जातयः क्षुद्राः सदानवनिशाचराः ॥ निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥१-२१९-४॥
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः। वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ॥१-२१९-५॥
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः। निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥१-२१९-६॥
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः। हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥१-२१९-७॥
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत। बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥१-२१९-८॥
समेतानां च देवानां दानवानां च सर्वशः। विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥१-२१९-९॥
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः। नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥१-२१९-१०॥
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान्। बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥१-२१९-११॥
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी। शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥१-२१९-१२॥
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः। दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥१-२१९-१३॥
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ। वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥१-२१९-१४॥
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि। भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥१-२१९-१५॥
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि। अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥१-२१९-१६॥
पूजनीयतमावेतावपि सर्वैः सुरासुरैः। सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥१-२१९-१७॥
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव। दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥१-२१९-१८॥
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः। कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥१-२१९-१९॥
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः। त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥१-२१९-२०॥
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु। वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥१-२१९-२१॥
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ। निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥१-२१९-२२॥
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान्। व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥१-२१९-२३॥
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः। सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ॥१-२१९-२४॥
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम्। निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥१-२१९-२५॥
शतेनैकं च विव्याध शतं चैकेन पत्रिणा। व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥१-२१९-२६॥
न चालभन्त ते शर्म रोधःसु विषमेषु च। पितृदेवनिवासेषु सन्तापश्चाप्यजायत ॥१-२१९-२७॥
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम्। रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ॥ तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥१-२१९-२८॥
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम्। निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥१-२१९-२९॥
एकायनगता येऽपि निष्पतन्त्यत्र केचन। राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥१-२१९-३०॥
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः। पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥१-२१९-३१॥
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः। उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥१-२१९-३२॥
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः। दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥१-२१९-३३॥
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः। बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥१-२१९-३४॥
अथासुरं मयं नाम तक्षकस्य निवेशनात्। विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥१-२१९-३५॥
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः। देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ॥ जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥१-२१९-३६॥
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम्। अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥१-२१९-३७॥
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः। प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥१-२१९-३८॥
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्। न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥१-२१९-३९॥
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च। अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥१-२१९-४०॥