Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.220
Pancharatra: Sharngakas escaped fire due to the boon Mandapala got from Agni.
जनमेजय उवाच॥
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते। तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ॥१-२२०-१॥
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च। कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ॥१-२२०-२॥
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम्। कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥१-२२०-३॥
वैशम्पायन उवाच॥
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते। तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥१-२२०-४॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः। आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥१-२२०-५॥
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम्। स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥१-२२०-६॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत। जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥१-२२०-७॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि। पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥१-२२०-८॥
किमर्थमावृता लोका ममैते तपसार्जिताः। किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥१-२२०-९॥
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्। फलमेतस्य तपसः कथयध्वं दिवौकसः ॥१-२२०-१०॥
देवा ऊचुः॥
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु। क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥१-२२०-११॥
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः। तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥१-२२०-१२॥
त इमे प्रसवस्यार्थे तव लोकाः समावृताः। प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥१-२२०-१३॥
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने। तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ॥१-२२०-१४॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम्। क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥१-२२०-१५॥
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान्। शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥१-२२०-१६॥
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः। तानपास्य स तत्रैव जगाम लपितां प्रति ॥ बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥१-२२०-१७॥
तस्मिन्गते महाभागे लपितां प्रति भारत। अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥१-२२०-१८॥
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने। नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ॥ बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ॥१-२२०-१९॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः। मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥१-२२०-२०॥
तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान्। सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ॥ पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥१-२२०-२१॥
मन्दपाल उवाच॥
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्। त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥१-२२०-२२॥
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः। त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥१-२२०-२३॥
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः। त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥१-२२०-२४॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्। गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥१-२२०-२५॥
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः। दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥१-२२०-२६॥
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते। तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥१-२२०-२७॥
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्। त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ॥१-२२०-२८॥
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः। त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥१-२२०-२९॥
वैशम्पायन उवाच॥
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः। तुतोष तस्य नृपते मुनेरमिततेजसः ॥ उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥१-२२०-३०॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम्। प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥१-२२०-३१॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः। खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥१-२२०-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.