01.221
Pancharatra: Struggle of Jarita and her four offspring.
वैशम्पायन उवाच॥
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः। व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥१-२२१-१॥
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी। जरिता दुःखसन्तप्ता विललाप नरेश्वर ॥१-२२१-२॥
अयमग्निर्दहन्कक्षमित आयाति भीषणः। जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥१-२२१-३॥
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः। अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ॥ त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥१-२२१-४॥
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम। आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥१-२२१-५॥
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे। कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥१-२२१-६॥
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्। चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ॥ छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥१-२२१-७॥
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम्। सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ॥१-२२१-८॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः। इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥१-२२१-९॥
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा। किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥१-२२१-१०॥
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्। एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥१-२२१-११॥
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्। अस्मासु हि विनष्टेषु भवितारः सुतास्तव ॥ त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥१-२२१-१२॥
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः। तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥१-२२१-१३॥
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः। न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥१-२२१-१४॥
जरितोवाच॥
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः। तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥१-२२१-१५॥
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः। एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥१-२२१-१६॥
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम्। रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥१-२२१-१७॥
शार्ङ्गका ऊचुः॥
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्। पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥१-२२१-१८॥
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत्। कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥१-२२१-१९॥
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्। अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥१-२२१-२०॥
गर्हितं मरणं नः स्यादाखुना खादता बिले। शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥१-२२१-२१॥