Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.222
Pancharatra: In spite of repeated appeals Sharngakas refuse to enter the hole.
जरितोवाच॥
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम्। क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥१-२२२-१॥
शार्ङ्गका ऊचुः॥
न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन। अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥१-२२२-२॥
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम्। मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ॥१-२२२-३॥
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते। चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥१-२२२-४॥
जरितोवाच॥
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात्। सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ॥१-२२२-५॥
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम्। आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥१-२२२-६॥
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि। भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥१-२२२-७॥
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा। तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥१-२२२-८॥
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्। श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥१-२२२-९॥
शार्ङ्गका ऊचुः॥
न विद्म वै वयं मातर्हृतमाखुमितः पुरा। अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥१-२२२-१०॥
जरितोवाच॥
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम्। अत एव भयं नास्ति क्रियतां वचनं मम ॥१-२२२-११॥
शार्ङ्गका ऊचुः॥
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत्। समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥१-२२२-१२॥
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्। पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥१-२२२-१३॥
तरुणी दर्शनीयासि समर्था भर्तुरेषणे। अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥१-२२२-१४॥
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान्। अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥१-२२२-१५॥
वैशम्पायन उवाच॥
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे। जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥१-२२२-१६॥
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः। यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥१-२२२-१७॥
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा। जरितारिस्ततो वाचं श्रावयामास पावकम् ॥१-२२२-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.