01.223
Pancharatra: Listening to younger Shangraka Drona’s prayer and remembering the boon given to Mandapala, Agni spares Shangrakas.
जरितारिरुवाच॥
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः। स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ॥१-२२३-१॥
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते। स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ॥१-२२३-२॥
सारिसृक्व उवाच॥
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः। शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥१-२२३-३॥
स्तम्बमित्र उवाच॥
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः। ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥१-२२३-४॥
द्रोण उवाच॥
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम्। सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥१-२२३-५॥
वैशम्पायन उवाच॥
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम्। तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥१-२२३-६॥
जरितारिरुवाच॥
आत्मासि वायोः पवनः शरीरमुत वीरुधाम्। योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥१-२२३-७॥
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः। अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥१-२२३-८॥
सारिसृक्व उवाच॥
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो। न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ॥१-२२३-९॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः। तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥१-२२३-१०॥
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव। ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ॥१-२२३-११॥
स्तम्बमित्र उवाच॥
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्। त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥१-२२३-१२॥
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः। मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥१-२२३-१३॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः। सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥१-२२३-१४॥
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते। नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥१-२२३-१५॥
द्रोण उवाच॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च। विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥१-२२३-१६॥
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः। जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥१-२२३-१७॥
इदं वै सद्म तिग्मांशो वरुणस्य परायणम्। शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥१-२२३-१८॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन। परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥१-२२३-१९॥
वैशम्पायन उवाच॥
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा। द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥१-२२३-२०॥
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया। ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥१-२२३-२१॥
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः। वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥१-२२३-२२॥
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम्। उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ॥ भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥१-२२३-२३॥
द्रोण उवाच॥
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः। एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥१-२२३-२४॥
वैशम्पायन उवाच॥
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान्। ददाह खाण्डवं चैव समिद्धो जनमेजय ॥१-२२३-२५॥