Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.224
Pancharatra: Mandapala and Jarita return to greet surviving Shangrakas. Women are not to be trusted, ways of the world are presented.
वैशम्पायन उवाच॥
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा। उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥१-२२४-१॥
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्। कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥१-२२४-२॥
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति। असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥१-२२४-३॥
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी। भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥१-२२४-४॥
कथं नु सरणेऽशक्तान्पतने च ममात्मजान्। सन्तप्यमाना अभितो वाशमानाभिधावती ॥१-२२४-५॥
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे। स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥१-२२४-६॥
लालप्यमानं तमृषिं मन्दपालं तथा वने। लपिता प्रत्युवाचेदं सासूयमिव भारत ॥१-२२४-७॥
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि। तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥१-२२४-८॥
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ। प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥१-२२४-९॥
लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन। समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥१-२२४-१०॥
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे। ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥१-२२४-११॥
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने। पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ॥१-२२४-१२॥
गच्छ त्वं जरितामेव यदर्थं परितप्यसे। चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥१-२२४-१३॥
मन्दपाल उवाच॥
नाहमेवं चरे लोके यथा त्वमभिमन्यसे। अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥१-२२४-१४॥
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः। अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥१-२२४-१५॥
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान्। द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥१-२२४-१६॥
वैशम्पायन उवाच॥
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः। जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥१-२२४-१७॥
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः। रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥१-२२४-१८॥
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः। एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥१-२२४-१९॥
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत। अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥१-२२४-२०॥
लालप्यमानमेकैकं जरितां च पुनः पुनः। नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ॥१-२२४-२१॥
मन्दपाल उवाच॥
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः। मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥१-२२४-२२॥
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे। कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥१-२२४-२३॥
जरितोवाच॥
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा। किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥१-२२४-२४॥
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा। तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥१-२२४-२५॥
मन्दपाल उवाच॥
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात्। सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥१-२२४-२६॥
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता। अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥१-२२४-२७॥
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्। सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥१-२२४-२८॥
अपध्यानेन सा तेन धूमारुणसमप्रभा। लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥१-२२४-२९॥
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह। इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ॥१-२२४-३०॥
नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन। न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥१-२२४-३१॥
वैशम्पायन उवाच॥
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे। स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥१-२२४-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.