Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.225
Pancharatra: Partha’s boon and Shakra’s advice to please Mahadeva.
मन्दपाल उवाच॥
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया। अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥१-२२५-१॥
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः। युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥१-२२५-२॥
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति। ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥१-२२५-३॥
वैशम्पायन उवाच॥
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत। मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥१-२२५-४॥
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम्। ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥१-२२५-५॥
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः। अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥१-२२५-६॥
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः। मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥१-२२५-७॥
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्। वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥१-२२५-८॥
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः। ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥१-२२५-९॥
यदा प्रसन्नो भगवान्महादेवो भविष्यति। तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥१-२२५-१०॥
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन। तपसा महता चापि दास्यामि तव तान्यहम् ॥१-२२५-११॥
आग्नेयानि च सर्वाणि वायव्यानि तथैव च। मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥१-२२५-१२॥
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्। ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥१-२२५-१३॥
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः। हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥१-२२५-१४॥
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम्। अहानि पञ्च चैकं च विरराम सुतर्पितः ॥१-२२५-१५॥
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च। युक्तः परमया प्रीत्या तावुवाच विशां पते ॥१-२२५-१६॥
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्। अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥१-२२५-१७॥
एवं तौ समनुज्ञातौ पावकेन महात्मना। अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥१-२२५-१८॥
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ। रमणीये नदीकूले सहिताः समुपाविशन् ॥१-२२५-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.