Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.001
Pancharatra: Krishna asks Maya to build a palace for Arjuna.
वैशम्पायन उवाच॥
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ। प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ॥२-१-१॥
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः। त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ॥२-१-२॥
अर्जुन उवाच॥
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर। प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥२-१-३॥
मय उवाच॥
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ। प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत ॥२-१-४॥
अहं हि विश्वकर्मा वै दानवानां महाकविः। सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ॥२-१-५॥
अर्जुन उवाच॥
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया। एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ॥२-१-६॥
न चापि तव सङ्कल्पं मोघमिच्छामि दानव। कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ॥२-१-७॥
वैशम्पायन उवाच॥
चोदितो वासुदेवस्तु मयेन भरतर्षभ। मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ॥२-१-८॥
चोदयामास तं कृष्णः सभा वै क्रियतामिति। धर्मराजस्य दैतेय यादृशीमिह मन्यसे ॥२-१-९॥
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः। मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ॥२-१-१०॥
यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया। आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ॥२-१-११॥
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा। विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ॥२-१-१२॥
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे। सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ॥२-१-१३॥
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा। स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ॥२-१-१४॥
स पूर्वदेवचरितं तत्र तत्र विशां पते। कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥२-१-१५॥
स कालं कञ्चिदाश्वस्य विश्वकर्मा प्रचिन्त्य च। सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ॥२-१-१६॥
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः। पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥२-१-१७॥
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः। धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥२-१-१८॥
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्। दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥२-१-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.