Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.002
Pancharatra: Pandavas worship Kirhsna and bid farewell.
वैशम्पायन उवाच॥
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः। पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥२-२-१॥
गमनाय मतिं चक्रे पितुर्दर्शनलालसः। धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥२-२-२॥
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः। स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥२-२-३॥
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः। तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ॥२-२-४॥
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम्। उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥२-२-५॥
तया स्वजनगामीनि श्रावितो वचनानि सः। सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥२-२-६॥
तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम्। ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥२-२-७॥
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः। द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ॥२-२-८॥
भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली। भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥२-२-९॥
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः। माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि ॥ स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ॥२-२-१०॥
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः। वसु प्रदाय च ततः प्रदक्षिणमवर्तत ॥२-२-११॥
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्। गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् ॥२-२-१२॥
तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते। प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ॥२-२-१३॥
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः। अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ॥ अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा ॥२-२-१४॥
उपारुह्यार्जुनश्चापि चामरव्यजनं सितम्। रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥२-२-१५॥
तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी। पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः ॥२-२-१६॥
स तथा भ्रातृभिः सार्धं केशवः परवीरहा। अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ॥२-२-१७॥
पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम्। युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा ॥२-२-१८॥
परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः। ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ॥२-२-१९॥
निवर्तयित्वा च तदा पाण्डवान्सपदानुगान्। स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः ॥२-२-२०॥
लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा। मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ॥२-२-२१॥
अतृप्तमनसामेव तेषां केशवदर्शने। क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ॥२-२-२२॥
अकामा इव पार्थास्ते गोविन्दगतमानसाः। निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः ॥ स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् ॥२-२-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.