02.005
Pancharatra: Narada’s teaching of Raja Dharma to Yudhisthira.
वैशम्पायन उवाच॥
तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु। महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥२-५-१॥
लोकाननुचरन्सर्वानागमत्तां सभामृषिः। नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥२-५-२॥
पारिजातेन राजेन्द्र रैवतेन च धीमता। सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥ सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ॥२-५-३॥
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्। सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ॥ अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥२-५-४॥
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि। अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥२-५-५॥
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः। धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥२-५-६॥
नारद उवाच॥
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः। सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥२-५-७॥
कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः। वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ॥२-५-८॥
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा। उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥२-५-९॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर। विभज्य काले कालज्ञ सदा वरद सेवसे ॥२-५-१०॥
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ। बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ॥२-५-११॥
कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर। तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ॥२-५-१२॥
कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ। आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ॥२-५-१३॥
कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः। त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ॥२-५-१४॥
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे। कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ॥२-५-१५॥
कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः। कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ॥२-५-१६॥
विजयो मन्त्रमूलो हि राज्ञां भवति भारत। सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ॥२-५-१७॥
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे। कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥२-५-१८॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह। कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ॥२-५-१९॥
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्। क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥२-५-२०॥
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः। सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ॥२-५-२१॥
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः। विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ॥२-५-२२॥
कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः। कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥२-५-२३॥
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्। पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ॥२-५-२४॥
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः। यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥२-५-२५॥
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः। राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥२-५-२६॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥२-५-२७॥
कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा। नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥२-५-२८॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥२-५-२९॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। हुतं च होष्यमाणं च काले वेदयते सदा ॥२-५-३०॥
कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः। उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥२-५-३१॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः। जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥२-५-३२॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्। श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥२-५-३३॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः। राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥२-५-३४॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा। उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥२-५-३५॥
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः। कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ॥२-५-३६॥
कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः। दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥२-५-३७॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्। सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि ॥२-५-३८॥
कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः। भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥२-५-३९॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः। कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ॥२-५-४०॥
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान्। अनुशास्सि यथाकामं कामात्मा शासनातिगः ॥२-५-४१॥
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन्। लभते मानमधिकं भूयो वा भक्तवेतनम् ॥२-५-४२॥
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान्। यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ॥२-५-४३॥
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम्। व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥२-५-४४॥
कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम्। युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥२-५-४५॥
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते। समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ॥२-५-४६॥
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ। अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥२-५-४७॥
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम्। बलस्य च महाराज दत्त्वा वेतनमग्रतः ॥२-५-४८॥
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप। उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥२-५-४९॥
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः। पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥२-५-५०॥
कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः। साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥२-५-५१॥
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते। तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥२-५-५२॥
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः। बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ॥२-५-५३॥
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप। अविहाय महाराज विहंसि समरे रिपून् ॥२-५-५४॥
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव। अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ॥२-५-५५॥
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च। घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥२-५-५६॥
कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम्। आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥२-५-५७॥
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते। रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥२-५-५८॥
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च। प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥२-५-५९॥
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः। पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव ॥२-५-६०॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान्। अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ॥२-५-६१॥
कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः। अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव ॥२-५-६२॥
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान्। नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥२-५-६३॥
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्। त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥२-५-६४॥
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते। अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥२-५-६५॥
कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा। त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ॥२-५-६६॥
कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च। भागशो विनिविष्टानि न कृषिर्देवमातृका ॥२-५-६७॥
कच्चिद्बीजं च भक्तं च कर्षकायावसीदते। प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥२-५-६८॥
कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः। वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥२-५-६९॥
कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः। क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥२-५-७०॥
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः। ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ॥२-५-७१॥
कच्चिद्बलेनानुगताः समानि विषमाणि च। पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ॥२-५-७२॥
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः। कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥२-५-७३॥
कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च। प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ॥२-५-७४॥
कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते। सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥२-५-७५॥
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतान्। उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ॥२-५-७६॥
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः। अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम ॥२-५-७७॥
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते। परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥२-५-७८॥
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा। मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥२-५-७९॥
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः। सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥२-५-८०॥
कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते। अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथञ्चन ॥२-५-८१॥
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा। आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ॥२-५-८२॥
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः। त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ॥२-५-८३॥
कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः। मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ॥२-५-८४॥
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः। कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ॥२-५-८५॥
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते। ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा ॥२-५-८६॥
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः। वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥२-५-८७॥
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः। गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥२-५-८८॥
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः। पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥२-५-८९॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि। चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥२-५-९०॥
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ। आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥२-५-९१॥
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति। विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ॥२-५-९२॥
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि। अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥२-५-९३॥
पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः। कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥२-५-९४॥
व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत। अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥२-५-९५॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्। अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् ॥२-५-९६॥
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम्। निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥२-५-९७॥
मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च। कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥२-५-९८॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम्। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥२-५-९९॥
युधिष्ठिर उवाच॥
कथं वै सफला वेदाः कथं वै सफलं धनम्। कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥२-५-१००॥
नारद उवाच॥
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्। रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥२-५-१०१॥
वैशम्पायन उवाच॥
एतदाख्याय स मुनिर्नारदः सुमहातपाः। पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥२-५-१०२॥
नारद उवाच॥
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्। यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥२-५-१०३॥
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः। उपानयन्ति पण्यानि उपधाभिरवञ्चिताः ॥२-५-१०४॥
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः। नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ॥२-५-१०५॥
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च। धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ॥२-५-१०६॥
द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम्। चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ॥२-५-१०७॥
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि। सतां मध्ये महाराज सत्करोषि च पूजयन् ॥२-५-१०८॥
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ। हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ॥२-५-१०९॥
कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ। धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ॥२-५-११०॥
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ। विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ॥२-५-१११॥
कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा। रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ॥२-५-११२॥
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान्। पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ॥२-५-११३॥
वैशम्पायन उवाच॥
एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य। प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम् ॥२-५-११४॥
एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा। उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च ॥२-५-११५॥
नारद उवाच॥
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे। स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ॥२-५-११६॥