Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.006
Library: Yudhisthira enquires about various assemblies.
वैशम्पायन उवाच॥
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्। प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥२-६-१॥
भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम्। यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ॥२-६-२॥
राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः। यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥२-६-३॥
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो। न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥२-६-४॥
एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च। मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥२-६-५॥
नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः। अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ॥२-६-६॥
भवान्सञ्चरते लोकान्सदा नानाविधान्बहून्। ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ॥२-६-७॥
ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित्। इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥२-६-८॥
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्। पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥२-६-९॥
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता। सभा मणिमयी राजन्यथेयं तव भारत ॥२-६-१०॥
सभां तु पितृराजस्य वरुणस्य च धीमतः। कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥२-६-११॥
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्। यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥२-६-१२॥
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः। प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ॥२-६-१३॥
नारदं प्रत्युवाचेदं धर्मराजो महामनाः। सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥२-६-१४॥
किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः। पितामहं च के तस्यां सभायां पर्युपासते ॥२-६-१५॥
वासवं देवराजं च यमं वैवस्वतं च के। वरुणं च कुबेरं च सभायां पर्युपासते ॥२-६-१६॥
एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव। श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥२-६-१७॥
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम्। क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥२-६-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.