02.004
Pancharatra: Yudhisthira’s assembly described.
वैशम्पायन उवाच॥
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः। अयुतं भोजयामास ब्राह्मणानां नराधिपः ॥२-४-१॥
घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा। अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ॥२-४-२॥
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः। पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥२-४-३॥
वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि। पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ॥२-४-४॥
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा। उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ॥२-४-५॥
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः। तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥२-४-६॥
सभायामृषयस्तस्यां पाण्डवैः सह आसते। आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥२-४-७॥
असितो देवलः सत्यः सर्पमाली महाशिराः। अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥२-४-८॥
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः। सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥२-४-९॥
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः। अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ॥२-४-१०॥
दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः। मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ ॥२-४-११॥
बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः। जातूकर्णः शिखावांश्च सुबलः पारिजातकः ॥२-४-१२॥
पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः। पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ॥२-४-१३॥
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः। हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥२-४-१४॥
कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः। पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥ कर्करो वेणुजङ्घश्च कलापः कठ एव च ॥२-४-१५॥
मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः। एते चान्ये च बहवो वेदवेदाङ्गपारगाः ॥२-४-१६॥
उपासते महात्मानं सभायामृषिसत्तमाः। कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ॥२-४-१७॥
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते। श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ॥२-४-१८॥
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्। कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ॥ काम्बोजराजः कमलः कम्पनश्च महाबलः ॥२-४-१९॥
सततं कम्पयामास यवनानेक एव यः। यथासुरान्कालकेयान्देवो वज्रधरस्तथा ॥२-४-२०॥
जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः। तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण ॥२-४-२१॥
किरातराजः सुमना यवनाधिपतिस्तथा। चाणूरो देवरातश्च भोजो भीमरथश्च यः ॥२-४-२२॥
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः। सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ॥२-४-२३॥
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः। सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ॥२-४-२४॥
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः। शिशुपालः सहसुतः करूषाधिपतिस्तथा ॥२-४-२५॥
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः। आहुको विपृथुश्चैव गदः सारण एव च ॥२-४-२६॥
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः। भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् ॥ केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ॥२-४-२७॥
अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः। अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ॥२-४-२८॥
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः। रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ॥२-४-२९॥
एते चान्ये च बहवो राजानः पृथिवीपते। धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥२-४-३०॥
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा। गीतवादित्रकुशलाः शम्यातालविशारदाः ॥२-४-३१॥
प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः। सञ्चोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः ॥२-४-३२॥
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः। पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ॥२-४-३३॥
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः। दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥२-४-३४॥