Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.007
Library: Description of Indra’s assembly.
नारद उवाच॥
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता। स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ॥२-७-१॥
विस्तीर्णा योजनशतं शतमध्यर्धमायता। वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ॥२-७-२॥
जराशोकक्लमापेता निरातङ्का शिवा शुभा। वेश्मासनवती रम्या दिव्यपादपशोभिता ॥२-७-३॥
तस्यां देवेश्वरः पार्थ सभायां परमासने। आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ॥२-७-४॥
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः। विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥२-७-५॥
तस्यामुपासते नित्यं महात्मानं शतक्रतुम्। मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः ॥ सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ॥२-७-६॥
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः। उपासते महात्मानं देवराजमरिंदमम् ॥२-७-७॥
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते। अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ॥ तेजस्विनः सोमयुजो विपापा विगतक्लमाः ॥२-७-८॥
पराशरः पर्वतश्च तथा सावर्णिगालवौ। शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ॥२-७-९॥
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः। उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ॥२-७-१०॥
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः। हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥२-७-११॥
वातस्कन्धो विशाखश्च विधाता काल एव च। अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥२-७-१२॥
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः। ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥२-७-१३॥
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः। समीकः सत्यवांश्चैव प्रचेताः सत्यसङ्गरः ॥२-७-१४॥
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः। मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ॥२-७-१५॥
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः। मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ॥ संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ॥२-७-१६॥
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती। अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ॥२-७-१७॥
जलवाहास्तथा मेघा वायवः स्तनयित्नवः। प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ॥२-७-१८॥
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा। भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ॥२-७-१९॥
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः। यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥२-७-२०॥
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः। नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ॥ रमयन्ति स्म नृपते देवराजं शतक्रतुम् ॥२-७-२१॥
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा। विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ॥२-७-२२॥
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा। विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ॥२-७-२३॥
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे। बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ॥२-७-२४॥
एते चान्ये च बहवो यतात्मानो यतव्रताः। विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ॥ ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥२-७-२५॥
एषा सभा मया राजन्दृष्टा पुष्करमालिनी। शतक्रतोर्महाराज याम्यां शृणु ममानघ ॥२-७-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.