Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.009
Library: Description of Varuna’s assembly.
नारद उवाच॥
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा। प्रमाणेन यथा याम्या शुभप्राकारतोरणा ॥२-९-१॥
अन्तःसलिलमास्थाय विहिता विश्वकर्मणा। दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ॥२-९-२॥
नीलपीतासितश्यामैः सितैर्लोहितकैरपि। अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ॥२-९-३॥
तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः। अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥२-९-४॥
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा। वेश्मासनवती रम्या सिता वरुणपालिता ॥२-९-५॥
यस्यामास्ते स वरुणो वारुण्या सह भारत। दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ॥२-९-६॥
स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः। आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥२-९-७॥
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा। कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥२-९-८॥
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ। मणिमान्कुण्डलधरः कर्कोटकधनञ्जयौ ॥२-९-९॥
प्रह्लादो मूषिकादश्च तथैव जनमेजयः। पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ॥२-९-१०॥
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर। उपासते महात्मानं वरुणं विगतक्लमाः ॥२-९-११॥
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः। प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ॥२-९-१२॥
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः। घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥२-९-१३॥
विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः। दशग्रीवश्च वाली च मेघवासा दशावरः ॥२-९-१४॥
कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः। दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ॥२-९-१५॥
स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः। सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥२-९-१६॥
ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा। उपासते महात्मानं सर्वे सुचरितव्रताः ॥२-९-१७॥
तथा समुद्राश्चत्वारो नदी भागीरथी च या। कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ॥२-९-१८॥
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती। इरावती वितस्ता च सिन्धुर्देवनदस्तथा ॥२-९-१९॥
गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा। एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ॥२-९-२०॥
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर। पल्वलानि तडागानि देहवन्त्यथ भारत ॥२-९-२१॥
दिशस्तथा मही चैव तथा सर्वे महीधराः। उपासते महात्मानं सर्वे जलचरास्तथा ॥२-९-२२॥
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः। स्तुवन्तो वरुणं तस्यां सर्व एव समासते ॥२-९-२३॥
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः। सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥२-९-२४॥
एषा मया सम्पतता वारुणी भरतर्षभ। दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥२-९-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.