Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.008
Library: Description of Vaivasvata Yama assembly.
नारद उवाच॥
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम्। वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥२-८-१॥
तैजसी सा सभा राजन्बभूव शतयोजना। विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ॥२-८-२॥
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी। नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥२-८-३॥
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्। न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥२-८-४॥
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः। रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥२-८-५॥
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः। रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥२-८-६॥
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः। यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ॥२-८-७॥
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः। त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥२-८-८॥
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः। प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥२-८-९॥
ऐडो मरुत्तः कुशिकः साङ्काश्यः साङ्कृतिर्भवः। चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥२-८-१०॥
भरतस्तथा सुरथः सुनीथो नैषधो नलः। दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥२-८-११॥
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः। रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥२-८-१२॥
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी। आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥२-८-१३॥
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः। अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः सञ्जयो जयः ॥२-८-१४॥
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः। करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥२-८-१५॥
कपोतरोमा तृणकः सहदेवार्जुनौ तथा। रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥२-८-१६॥
अलर्कः कक्षसेनश्च गयो गौराश्व एव च। जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥२-८-१७॥
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा। वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥२-८-१८॥
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा। इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥२-८-१९॥
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्। अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥२-८-२०॥
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः। धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥२-८-२१॥
शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम्। शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥२-८-२२॥
उशद्गवः शतरथो देवराजो जयद्रथः। वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ॥२-८-२३॥
अथापरे सहस्राणि ये गताः शशबिन्दवः। इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥२-८-२४॥
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः। तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥२-८-२५॥
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च। यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥२-८-२६॥
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये। स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥२-८-२७॥
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः। नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥२-८-२८॥
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये। तस्यां शिंशपपालाशास्तथा काशकुशादयः ॥ उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥२-८-२९॥
एते चान्ये च बहवः पितृराजसभासदः। अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा ॥२-८-३०॥
असम्बाधा हि सा पार्थ रम्या कामगमा सभा। दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥२-८-३१॥
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत। तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥२-८-३२॥
शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा। सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥२-८-३३॥
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः। सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ॥२-८-३४॥
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः। वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥२-८-३५॥
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः। दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ॥२-८-३६॥
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्। उपासते महात्मानं रूपयुक्ता मनस्विनः ॥२-८-३७॥
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः। वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥२-८-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.