02.010
Library: Description of Vaishravana’s assembly.
नारद उवाच॥
सभा वैश्रवणी राजञ्शतयोजनमायता। विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ॥२-१०-१॥
तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा। शशिप्रभा खेचरीणां कैलासशिखरोपमा ॥२-१०-२॥
गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते। दिव्या हेममयैरुच्चैः पादपैरुपशोभिता ॥२-१०-३॥
रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा। सिताभ्रशिखराकारा प्लवमानेव दृश्यते ॥२-१०-४॥
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः। स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः ॥२-१०-५॥
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते। दिव्यपादोपधाने च निषण्णः परमासने ॥२-१०-६॥
मन्दाराणामुदाराणां वनानि सुरभीणि च। सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः ॥२-१०-७॥
नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च। मनोहृदयसंह्लादी वायुस्तमुपसेवते ॥२-१०-८॥
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः। दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ॥२-१०-९॥
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता। चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ॥२-१०-१०॥
विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा। वर्गा च सौरभेयी च समीची बुद्बुदा लता ॥२-१०-११॥
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः। उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ॥२-१०-१२॥
अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा। अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ॥२-१०-१३॥
किंनरा नाम गन्धर्वा नरा नाम तथापरे। मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ॥२-१०-१४॥
कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः। कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः ॥२-१०-१५॥
वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः। अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः ॥२-१०-१६॥
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः। वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ॥२-१०-१७॥
एते चान्ये च बहवो यक्षाः शतसहस्रशः। सदा भगवती च श्रीस्तथैव नलकूबरः ॥२-१०-१८॥
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः। आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे ॥२-१०-१९॥
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः। उमापतिः पशुपतिः शूलधृग्भगनेत्रहा ॥२-१०-२०॥
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा। वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः ॥२-१०-२१॥
मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः। नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः ॥ वृतः सखायमन्वास्ते सदैव धनदं नृप ॥२-१०-२२॥
सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा। पितामहसभां राजन्कथयिष्ये गतक्लमाम् ॥२-१०-२३॥