02.011
Pancharatra: Description of the Self-creating Brahman’s assembly. How Harishchandra performed Rajasuya to get a place in that assembly.
नारद उवाच॥
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः। आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥२-११-१॥
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः। सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव ॥२-११-२॥
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ। अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ॥२-११-३॥
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन। दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ॥२-११-४॥
भगवन्द्रष्टुमिच्छामि पितामहसभामहम्। येन सा तपसा शक्या कर्मणा वापि गोपते ॥२-११-५॥
औषधैर्वा तथा युक्तैरुत वा मायया यया। तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ॥२-११-६॥
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्। अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् ॥२-११-७॥
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप। क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥२-११-८॥
न वेद परिमाणं वा संस्थानं वापि भारत। न च रूपं मया तादृग्दृष्टपूर्वं कदाचन ॥२-११-९॥
सुसुखा सा सभा राजन्न शीता न च घर्मदा। न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ॥२-११-१०॥
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः। स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥२-११-११॥
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा। दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥२-११-१२॥
तस्यां स भगवानास्ते विदधद्देवमायया। स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ॥२-११-१३॥
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्। दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ॥२-११-१४॥
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः। मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥२-११-१५॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत। प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥२-११-१६॥
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्। वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ॥२-११-१७॥
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः। अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥२-११-१८॥
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा। विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥२-११-१९॥
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च। शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥२-११-२०॥
मन्त्रो रथन्तरश्चैव हरिमान्वसुमानपि। आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ॥२-११-२१॥
मरुतो विश्वकर्मा च वसवश्चैव भारत। तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥२-११-२२॥
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव। अथर्ववेदश्च तथा पर्वाणि च विशां पते ॥२-११-२३॥
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः। ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ॥२-११-२४॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा। मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥२-११-२५॥
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा। भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते ॥२-११-२६॥
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च। अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ॥२-११-२७॥
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः। कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् ॥२-११-२८॥
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा। कालका सुरभिर्देवी सरमा चाथ गौतमी ॥२-११-२९॥
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि। विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥२-११-३०॥
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा। सुपर्णनागपशवः पितामहमुपासते ॥२-११-३१॥
देवो नारायणस्तस्यां तथा देवर्षयश्च ये। ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ॥२-११-३२॥
यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम्। सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ॥२-११-३३॥
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम्। प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥२-११-३४॥
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः। प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ॥२-११-३५॥
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा। यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥२-११-३६॥
महाभागानमितधीर्ब्रह्मा लोकपितामहः। दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥२-११-३७॥
प्रतिगृह्य च विश्वात्मा स्वयम्भूरमितप्रभः। सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ॥२-११-३८॥
तथा तैरुपयातैश्च प्रतियातैश्च भारत। आकुला सा सभा तात भवति स्म सुखप्रदा ॥२-११-३९॥
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता। ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥२-११-४०॥
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा। सभेयं राजशार्दूल मनुष्येषु यथा तव ॥२-११-४१॥
एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव। तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा ॥२-११-४२॥
युधिष्ठिर उवाच॥
प्रायशो राजलोकस्ते कथितो वदतां वर। वैवस्वतसभायां तु यथा वदसि वै प्रभो ॥२-११-४३॥
वरुणस्य सभायां तु नागास्ते कथिता विभो। दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ॥२-११-४४॥
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा। गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥२-११-४५॥
पितामहसभायां तु कथितास्ते महर्षयः। सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ॥२-११-४६॥
शतक्रतुसभायां तु देवाः सङ्कीर्तिता मुने। उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥२-११-४७॥
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने। कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ॥२-११-४८॥
किं कर्म तेनाचरितं तपो वा नियतव्रतम्। येनासौ सह शक्रेण स्पर्धते स्म महायशाः ॥२-११-४९॥
पितृलोकगतश्चापि त्वया विप्र पिता मम। दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ॥२-११-५०॥
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम्। त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ॥२-११-५१॥
नारद उवाच॥
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो। तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥२-११-५२॥
स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम्। तस्य सर्वे महीपालाः शासनावनताः स्थिताः ॥२-११-५३॥
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्। शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ॥२-११-५४॥
स विजित्य महीं सर्वां सशैलवनकाननाम्। आजहार महाराज राजसूयं महाक्रतुम् ॥२-११-५५॥
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया। द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ॥२-११-५६॥
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः। यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ॥२-११-५७॥
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा। प्रासर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ॥२-११-५८॥
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः। रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् ॥ तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ॥२-११-५९॥
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते। तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ॥२-११-६०॥
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्। अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ॥२-११-६१॥
ये चान्येऽपि महीपाला राजसूयं महाक्रतुम्। यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ॥२-११-६२॥
ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलायिनः। ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ॥२-११-६३॥
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्। तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ॥२-११-६४॥
पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः। हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥२-११-६५॥
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः। राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ॥२-११-६६॥
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव। गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ॥२-११-६७॥
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्। छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥२-११-६८॥
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम्। किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ॥२-११-६९॥
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर। अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ॥ भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ॥२-११-७०॥
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि। आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥२-११-७१॥
वैशम्पायन उवाच॥
एवमाख्याय पार्थेभ्यो नारदो जनमेजय। जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥२-११-७२॥
गते तु नारदे पार्थो भ्रातृभिः सह कौरव। राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ॥२-११-७३॥