Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.012
Core-Pancharatra: Yudhisthira finally asks Krishna for his opinion on Rajasuya.
वैशम्पायन उवाच॥
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः। चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ॥२-१२-१॥
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम्। यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥२-१२-२॥
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः। यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥२-१२-३॥
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः। प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥२-१२-४॥
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम्। आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य सोऽसकृत् ॥२-१२-५॥
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन्। किं हितं सर्वलोकानां भवेदिति मनो दधे ॥२-१२-६॥
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः। अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥२-१२-७॥
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः। न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥२-१२-८॥
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः। राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥२-१२-९॥
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा। युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥२-१२-१०॥
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति। तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ॥२-१२-११॥
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन। राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥२-१२-१२॥
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा। साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ॥२-१२-१३॥
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्। अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥२-१२-१४॥
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्। अविचार्य महाराज राजसूये मनः कुरु ॥२-१२-१५॥
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्। स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते ॥ धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ॥२-१२-१६॥
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्। पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥२-१२-१७॥
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः। धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ॥२-१२-१८॥
युधिष्ठिर उवाच॥
इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः। श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ॥२-१२-१९॥
वैशम्पायन उवाच॥
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन। इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् ॥ अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ॥२-१२-२०॥
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा। मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ॥२-१२-२१॥
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान्। भूयो विममृशे पार्थो लोकानां हितकाम्यया ॥२-१२-२२॥
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ। विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ॥२-१२-२३॥
न हि यज्ञसमारम्भः केवलात्मविपत्तये। भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ॥२-१२-२४॥
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्। सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥२-१२-२५॥
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु। पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ॥२-१२-२६॥
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्। न स किञ्चिन्न विषहेदिति कृष्णममन्यत ॥२-१२-२७॥
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः। गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ॥२-१२-२८॥
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्। द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ॥२-१२-२९॥
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः। इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ॥२-१२-३०॥
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः। इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ॥२-१२-३१॥
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः। भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ॥२-१२-३२॥
प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा। अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ॥२-१२-३३॥
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम्। धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ॥२-१२-३४॥
युधिष्ठिर उवाच॥
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया। प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ॥२-१२-३५॥
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते। यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥२-१२-३६॥
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे। तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥२-१२-३७॥
केचिद्धि सौहृदादेव दोषं न परिचक्षते। अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥२-१२-३८॥
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्। एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥२-१२-३९॥
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च। परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ॥२-१२-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.