02.013
Pancharatra: Krishna describes the landscape of Bharat and advises Yudhisthira to defeat Jarasanda, if he wants to perform Rajasuya sacrifice.
श्रीकृष्ण उवाच॥
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि। जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ॥२-१३-१॥
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्। तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् ॥२-१३-२॥
कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिप। निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥२-१३-३॥
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते। राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥२-१३-४॥
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः। तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥२-१३-५॥
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान्। भजते च महाराज विस्तरः स चतुर्दिशम् ॥२-१३-६॥
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते। सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥२-१३-७॥
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत्। स साम्राज्यं जरासन्धः प्राप्तो भवति योनितः ॥२-१३-८॥
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः। राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥२-१३-९॥
तमेव च महाराज शिष्यवत्समुपस्थितः। वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥२-१३-१०॥
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ। जरासन्धं महावीर्यं तौ हंसडिभकावुभौ ॥२-१३-११॥
दन्तवक्रः करूषश्च कलभो मेघवाहनः। मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥२-१३-१२॥
मुरं च नरकं चैव शास्ति यो यवनाधिपौ। अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥२-१३-१३॥
भगदत्तो महाराज वृद्धस्तव पितुः सखा। स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥२-१३-१४॥
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि। प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥२-१३-१५॥
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः। स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥२-१३-१६॥
जरासन्धं गतस्त्वेवं पुरा यो न मया हतः। पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥२-१३-१७॥
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्। आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥२-१३-१८॥
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः। पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ॥२-१३-१९॥
चतुर्युः स महाराज भोज इन्द्रसखो बली। विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ॥२-१३-२०॥
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि। स भक्तो मागधं राजा भीष्मकः परवीरहा ॥२-१३-२१॥
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनः सतः। भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥२-१३-२२॥
न कुलं न बलं राजन्नभिजानंस्तथात्मनः। पश्यमानो यशो दीप्तं जरासन्धमुपाश्रितः ॥२-१३-२३॥
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो। जरासन्धभयादेव प्रतीचीं दिशमाश्रिताः ॥२-१३-२४॥
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः। सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥२-१३-२५॥
शाल्वेयानां च राजानः सोदर्यानुचरैः सह। दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥२-१३-२६॥
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः। मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥२-१३-२७॥
तथैव सर्वपाञ्चाला जरासन्धभयार्दिताः। स्वराष्ट्रं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ॥२-१३-२८॥
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान्। बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥२-१३-२९॥
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले। बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥२-१३-३०॥
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्। भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥२-१३-३१॥
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता। दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥२-१३-३२॥
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्। हतौ कंससुनामानौ मया रामेण चाप्युत ॥२-१३-३३॥
भये तु समुपक्रान्ते जरासन्धे समुद्यते। मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥२-१३-३४॥
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः। न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥२-१३-३५॥
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ। नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥२-१३-३६॥
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥२-१३-३७॥
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः। तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥२-१३-३८॥
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः। स चान्यैः सहितो राजन्सङ्ग्रामेऽष्टादशावरैः ॥२-१३-३९॥
हतो हंस इति प्रोक्तमथ केनापि भारत। तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ॥२-१३-४०॥
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे। इत्येतां मतिमास्थाय डिभको निधनं गतः ॥२-१३-४१॥
तथा तु डिभकं श्रुत्वा हंसः परपुरञ्जयः। प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥२-१३-४२॥
तौ स राजा जरासन्धः श्रुत्वाप्सु निधनं गतौ। स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ॥२-१३-४३॥
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे। पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥२-१३-४४॥
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना। कंसभार्या जरासन्धं दुहिता मागधं नृपम् ॥२-१३-४५॥
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता। पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ॥२-१३-४६॥
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्। संस्मरन्तो विमनसो व्यपयाता नराधिप ॥२-१३-४७॥
पृथक्त्वेन द्रुता राजन्सङ्क्षिप्य महतीं श्रियम्। प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥२-१३-४८॥
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः। कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ॥२-१३-४९॥
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप। तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥२-१३-५०॥
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुङ्गवाः। तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥२-१३-५१॥
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च। माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥२-१३-५२॥
एवं वयं जरासन्धादादितः कृतकिल्बिषाः। सामर्थ्यवन्तः सम्बन्धाद्भवन्तं समुपाश्रिताः ॥२-१३-५३॥
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि। योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ॥ अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥२-१३-५४॥
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले। आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥२-१३-५५॥
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः। अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥२-१३-५६॥
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे। कृतवर्मा अनाधृष्टिः समीकः समितिञ्जयः ॥२-१३-५७॥
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः। पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥२-१३-५८॥
लोकसंहनना वीरा वीर्यवन्तो महाबलाः। स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥२-१३-५९॥
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम। क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥२-१३-६०॥
न तु शक्यं जरासन्धे जीवमाने महाबले। राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ॥२-१३-६१॥
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे। कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥२-१३-६२॥
सोऽपि राजा जरासन्धो यियक्षुर्वसुधाधिपैः। आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ॥२-१३-६३॥
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्। पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥२-१३-६४॥
वयं चैव महाराज जरासन्धभयात्तदा। मथुरां सम्परित्यज्य गता द्वारवतीं पुरीम् ॥२-१३-६५॥
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि। यतस्व तेषां मोक्षाय जरासन्धवधाय च ॥२-१३-६६॥
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन। राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥२-१३-६७॥
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ। एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥२-१३-६८॥