Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.015
Pancharatra: Yudhisthira wants peace, while Arjuna seeks battle.
युधिष्ठिर उवाच॥
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः। कथं प्रहिणुयां भीमं बलात्केवलसाहसात् ॥२-१५-१॥
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्। मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ॥२-१५-२॥
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्। श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् ॥२-१५-३॥
अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते। यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ॥२-१५-४॥
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन। प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः ॥२-१५-५॥
वैशम्पायन उवाच॥
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥२-१५-६॥
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥२-१५-७॥
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः। बलेन सदृशं नास्ति वीर्यं तु मम रोचते ॥२-१५-८॥
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति। क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये ॥२-१५-९॥
सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून्। सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ॥२-१५-१०॥
द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे। जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥२-१५-११॥
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते। तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥२-१५-१२॥
दैन्यं यथाबलवति तथा मोहो बलान्विते। तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ॥२-१५-१३॥
जरासन्धविनाशं च राज्ञां च परिमोक्षणम्। यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ॥२-१५-१४॥
अनारम्भे तु नियतो भवेदगुणनिश्चयः। गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥२-१५-१५॥
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्। साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः ॥२-१५-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.