Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.014
Pancharatra: Both Bhima and Krishna recommend to defeat Jarasanda.
युधिष्ठिर उवाच॥
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति। संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥२-१४-१॥
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः। न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् ॥२-१४-२॥
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति। परेण समवेतस्तु यः प्रशस्तः स पूज्यते ॥२-१४-३॥
विशाला बहुला भूमिर्बहुरत्नसमाचिता। दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥२-१४-४॥
शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः। आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥२-१४-५॥
एवमेवाभिजानन्ति कुले जाता मनस्विनः। कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ॥२-१४-६॥
भीम उवाच॥
अनारम्भपरो राजा वल्मीक इव सीदति। दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥२-१४-७॥
अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम्। जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् ॥२-१४-८॥
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये। मागधं साधयिष्यामो वयं त्रय इवाग्नयः ॥२-१४-९॥
कृष्ण उवाच॥
आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते। तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥२-१४-१०॥
हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः। कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः ॥ ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ॥२-१४-११॥
निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः। बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ॥२-१४-१२॥
न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः। तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः ॥२-१४-१३॥
रत्नभाजो हि राजानो जरासन्धमुपासते। न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥२-१४-१४॥
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात्। आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥२-१४-१५॥
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान्। तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥२-१४-१६॥
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे। पशूनामिव का प्रीतिर्जीविते भरतर्षभ ॥२-१४-१७॥
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः। ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् ॥२-१४-१८॥
षडशीतिः समानीताः शेषा राजंश्चतुर्दश। जरासन्धेन राजानस्ततः क्रूरं प्रपत्स्यते ॥२-१४-१९॥
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्। जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत् ॥२-१४-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.