Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.016
Pancharatra: Jarasanda’s two halves united by Jara
वासुदेव उवाच॥
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च। या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥२-१६-१॥
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा। न चापि कञ्चिदमरमयुद्धेनापि शुश्रुमः ॥२-१६-२॥
एतावदेव पुरुषैः कार्यं हृदयतोषणम्। नयेन विधिदृष्टेन यदुपक्रमते परान् ॥२-१६-३॥
सुनयस्यानपायस्य संयुगे परमः क्रमः। संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ॥२-१६-४॥
ते वयं नयमास्थाय शत्रुदेहसमीपगाः। कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥ पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥२-१६-५॥
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम्। इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥२-१६-६॥
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्। शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ॥२-१६-७॥
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ। अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः ॥२-१६-८॥
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः। प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥२-१६-९॥
युधिष्ठिर उवाच॥
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः। यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ॥२-१६-१०॥
कृष्ण उवाच॥
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः। यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥२-१६-११॥
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः। राजा बृहद्रथो नाम मगधाधिपतिः पतिः ॥२-१६-१२॥
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः। नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ॥२-१६-१३॥
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः। यमान्तकसमः कोपे श्रिया वैश्रवणोपमः ॥२-१६-१४॥
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम। व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥२-१६-१५॥
स काशिराजस्य सुते यमजे भरतर्षभ। उपयेमे महावीर्यो रूपद्रविणसंमते ॥२-१६-१६॥
तयोश्चकार समयं मिथः स पुरुषर्षभः। नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ॥२-१६-१७॥
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप। प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ॥२-१६-१८॥
तयोर्मध्यगतश्चापि रराज वसुधाधिपः। गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ॥२-१६-१९॥
विषयेषु निमग्नस्य तस्य यौवनमत्यगात्। न च वंशकरः पुत्रस्तस्याजायत कश्चन ॥२-१६-२०॥
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः। नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ॥२-१६-२१॥
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः। शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ॥२-१६-२२॥
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम्। पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ॥२-१६-२३॥
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः। परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ॥२-१६-२४॥
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः। पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ॥२-१६-२५॥
बृहद्रथ उवाच॥
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्। किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥२-१६-२६॥
कृष्ण उवाच॥
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः। तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ॥२-१६-२७॥
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह। अवातमशुकादष्टमेकमाम्रफलं किल ॥२-१६-२८॥
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च। राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम् ॥२-१६-२९॥
उवाच च महाप्राज्ञस्तं राजानं महामुनिः। गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ॥२-१६-३०॥
यथासमयमाज्ञाय तदा स नृपसत्तमः। द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥२-१६-३१॥
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे। भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ॥२-१६-३२॥
तयोः समभवद्गर्भः फलप्राशनसम्भवः। ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ॥२-१६-३३॥
अथ काले महाप्राज्ञ यथासमयमागते। प्रजायेतामुभे राजञ्शरीरशकले तदा ॥२-१६-३४॥
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे। दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ॥२-१६-३५॥
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले। सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥२-१६-३६॥
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे। निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ॥२-१६-३७॥
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी। जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥२-१६-३८॥
कर्तुकामा सुखवहे शकले सा तु राक्षसी। सङ्घट्टयामास तदा विधानबलचोदिता ॥२-१६-३९॥
ते समानीतमात्रे तु शकले पुरुषर्षभ। एकमूर्तिकृते वीरः कुमारः समपद्यत ॥२-१६-४०॥
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना। न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ॥२-१६-४१॥
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः। प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ॥२-१६-४२॥
तेन शब्देन सम्भ्रान्तः सहसान्तःपुरे जनः। निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ॥२-१६-४३॥
ते चाबले परिग्लाने पयःपूर्णपयोधरे। निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ॥२-१६-४४॥
अथ दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम्। तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥२-१६-४५॥
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः। बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ॥२-१६-४६॥
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम्। बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ॥२-१६-४७॥
तव पत्नीद्वये जातो द्विजातिवरशासनात्। धात्रीजनपरित्यक्तो मयायं परिरक्षितः ॥२-१६-४८॥
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे। तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ॥२-१६-४९॥
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च। अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ॥२-१६-५०॥
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी। कामया ब्रूहि कल्याणि देवता प्रतिभासि मे ॥२-१६-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.