02.017
Pancharatra: After departure of Brihadratha, as predicted by ChandaKaushika conquers various kings.
राक्षस्युवाच॥
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी। तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥२-१७-१॥
साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप। तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ॥२-१७-२॥
संश्लेषिते मया दैवात्कुमारः समपद्यत। तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ॥२-१७-३॥
कृष्ण उवाच॥
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ॥२-१७-४॥
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा। आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् ॥२-१७-५॥
तस्य नामाकरोत्तत्र प्रजापतिसमः पिता। जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ॥२-१७-६॥
सोऽवर्धत महातेजा मगधाधिपतेः सुतः। प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ॥२-१७-७॥
कस्यचित्त्वथ कालस्य पुनरेव महातपाः। मगधानुपचक्राम भगवांश्चण्डकौशिकः ॥२-१७-८॥
तस्यागमनसंहृष्टः सामात्यः सपुरःसरः। सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥२-१७-९॥
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत। स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् ॥२-१७-१०॥
प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः। उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ॥२-१७-११॥
सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा। पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥२-१७-१२॥
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः। देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ॥ न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥२-१७-१३॥
सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति। सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ॥२-१७-१४॥
एनमासाद्य राजानः समृद्धबलवाहनाः। विनाशमुपयास्यन्ति शलभा इव पावकम् ॥२-१७-१५॥
एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति। वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ॥२-१७-१६॥
एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः। शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ॥२-१७-१७॥
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः। सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥२-१७-१८॥
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्। सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ॥२-१७-१९॥
एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन्। विसर्जयामास नृपं बृहद्रथमथारिहन् ॥२-१७-२०॥
प्रविश्य नगरं चैव ज्ञातिसम्बन्धिभिर्वृतः। अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ॥ बृहद्रथो नरपतिः परां निर्वृतिमाययौ ॥२-१७-२१॥
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः। पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् ॥२-१७-२२॥
तपोवनस्थे पितरि मातृभ्यां सह भारत। जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ॥२-१७-२३॥
अथ दीर्घस्य कालस्य तपोवनगतो नृपः। सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥२-१७-२४॥
तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ। मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ॥२-१७-२५॥
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥२-१७-२६॥
एवमेष तदा वीर बलिभिः कुकुरान्धकैः। वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ॥२-१७-२७॥