02.023
Pancharatra: Pandavas go on conquest, Arjuna to north, Bheema to east, Nakula to west, and Sahadeva to south.
वैशम्पायन उवाच॥
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥२-२३-१॥
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥२-२३-२॥
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम्। करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥२-२३-३॥
विजयाय प्रयास्यामि दिशं धनदरक्षिताम्। तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥२-२३-४॥
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः। स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥२-२३-५॥
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ। दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥ विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ॥२-२३-६॥
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः। अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥२-२३-७॥
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ। ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ॥२-२३-८॥
दिशं धनपतेरिष्टामजयत्पाकशासनिः। भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ॥२-२३-९॥
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित्। खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ॥२-२३-१०॥
जनमेजय उवाच॥
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥२-२३-११॥
वैशम्पायन उवाच॥
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते। यौगपद्येन पार्थैर्हि विजितेयं वसुन्धरा ॥२-२३-१२॥
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन्। धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ॥२-२३-१३॥
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः। सुमण्डलं पापजितं कृतवाननुसैनिकम् ॥२-२३-१४॥
स तेन सहितो राजन्सव्यसाची परन्तपः। विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥२-२३-१५॥
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः। अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ॥२-२३-१६॥
स तानपि महेष्वासो विजित्य भरतर्षभ। तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥२-२३-१७॥
तत्र राजा महानासीद्भगदत्तो विशां पते। तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥२-२३-१८॥
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्। अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥२-२३-१९॥
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम्। प्रहसन्नब्रवीद्राजा सङ्ग्रामे विगतक्लमः ॥२-२३-२०॥
उपपन्नं महाबाहो त्वयि पाण्डवनन्दन। पाकशासनदायादे वीर्यमाहवशोभिनि ॥२-२३-२१॥
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे। न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ॥२-२३-२२॥
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते। यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥२-२३-२३॥
अर्जुन उवाच॥
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः। तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ॥२-२३-२४॥
भवान्पितृसखा चैव प्रीयमाणो मयापि च। ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥२-२३-२५॥
भगदत्त उवाच॥
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः। सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥२-२३-२६॥