Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.024
Pancharatra: Ajuna conquers all the kings till Himalayas and Nishkuta mountains. List includes Himalayas and Nishkuta mountains.
वैशम्पायन उवाच॥
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः। प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥२-२४-१॥
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्। तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥२-२४-२॥
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः। तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥२-२४-३॥
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान्। कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥२-२४-४॥
मृदङ्गवरनादेन रथनेमिस्वनेन च। हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥२-२४-५॥
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा। निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥२-२४-६॥
सुमहान्संनिपातोऽभूद्धनञ्जयबृहन्तयोः। न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥२-२४-७॥
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः। उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥२-२४-८॥
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ। सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥२-२४-९॥
मोदापुरं वामदेवं सुदामानं सुसङ्कुलम्। कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥२-२४-१०॥
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्। व्यजयद्धनञ्जयो राजन्देशान्पञ्च प्रमाणतः ॥२-२४-११॥
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत्। बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥२-२४-१२॥
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्। अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥२-२४-१३॥
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्। ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥२-२४-१४॥
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः। गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ॥२-२४-१५॥
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः। व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥२-२४-१६॥
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये। क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥२-२४-१७॥
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः। उरशावासिनं चैव रोचमानं रणेऽजयत् ॥२-२४-१८॥
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्। प्रामथद्बलमास्थाय पाकशासनिराहवे ॥२-२४-१९॥
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः। सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥२-२४-२०॥
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः। महता परिमर्देन वशे चक्रे दुरासदान् ॥२-२४-२१॥
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः। दरदान्सह काम्बोजैरजयत्पाकशासनिः ॥२-२४-२२॥
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः। निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥२-२४-२३॥
लोहान्परमकाम्बोजानृषिकानुत्तरानपि। सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥२-२४-२४॥
ऋषिकेषु तु सङ्ग्रामो बभूवातिभयङ्करः। तारकामयसङ्काशः परमर्षिकपार्थयोः ॥२-२४-२५॥
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि। शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ॥ मयूरसदृशानन्यानुभयानेव चापरान् ॥२-२४-२६॥
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कुटम्। श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥२-२४-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.