Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.022
Pancharatra: Killing Jarasandha, Krishna sets free the imprisoned kings.
वैशम्पायन उवाच॥
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्। बुद्धिमास्थाय विपुलां जरासन्धजिघांसया ॥२-२२-१॥
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्। प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा ॥२-२२-२॥
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्। त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ॥२-२२-३॥
यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः। बलं भीम जरासन्धे दर्शयाशु तदद्य नः ॥२-२२-४॥
एवमुक्तस्तदा भीमो जरासन्धमरिंदमः। उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः ॥२-२२-५॥
भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ। बभञ्ज पृष्ठे सङ्क्षिप्य निष्पिष्य विननाद च ॥२-२२-६॥
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः। अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ॥२-२२-७॥
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः। भीमसेनस्य नादेन जरासन्धस्य चैव ह ॥२-२२-८॥
किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही। इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् ॥२-२२-९॥
ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम्। रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः ॥२-२२-१०॥
जरासन्धरथं कृष्णो योजयित्वा पताकिनम्। आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥२-२२-११॥
ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः। राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् ॥२-२२-१२॥
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः। रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥२-२२-१३॥
यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः। अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः ॥२-२२-१४॥
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः। शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥२-२२-१५॥
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये। रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ॥२-२२-१६॥
तप्तचामीकराभेण किङ्किणीजालमालिना। मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥२-२२-१७॥
येन शक्रो दानवानां जघान नवतीर्नव। तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ॥२-२२-१८॥
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा। रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥२-२२-१९॥
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे। अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥२-२२-२०॥
असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः। योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥२-२२-२१॥
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्। क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः ॥२-२२-२२॥
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः। तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः ॥२-२२-२३॥
दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ। आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥२-२२-२४॥
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते। दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः ॥२-२२-२५॥
तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम्। निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥२-२२-२६॥
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः। बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् ॥२-२२-२७॥
स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः। गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः ॥२-२२-२८॥
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा। ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥२-२२-२९॥
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्। पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः ॥२-२२-३०॥
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन। भीमार्जुनबलोपेते धर्मस्य परिपालनम् ॥२-२२-३१॥
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्। राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते ॥२-२२-३२॥
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे। दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम ॥२-२२-३३॥
किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ। कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् ॥२-२२-३४॥
तानुवाच हृषीकेशः समाश्वास्य महामनाः। युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति ॥२-२२-३५॥
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति ॥२-२२-३६॥
ततः प्रतीतमनसस्ते नृपा भरतर्षभ। तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् ॥२-२२-३७॥
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः। कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥२-२२-३८॥
जरासन्धात्मजश्चैव सहदेवो महारथः। निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥२-२२-३९॥
स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः। सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥२-२२-४०॥
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा। अभ्यषिञ्चत तत्रैव जरासन्धात्मजं तदा ॥२-२२-४१॥
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः। विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् ॥२-२२-४२॥
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन्। रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः ॥२-२२-४३॥
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः। समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥२-२२-४४॥
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः। राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥२-२२-४५॥
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ। पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥२-२२-४६॥
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः। भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥२-२२-४७॥
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्। अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥२-२२-४८॥
यथावयः समागम्य राजभिस्तैश्च पाण्डवः। सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥२-२२-४९॥
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः। जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥२-२२-५०॥
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः। पाण्डवैर्घातयामास जरासन्धमरिं तदा ॥२-२२-५१॥
घातयित्वा जरासन्धं बुद्धिपूर्वमरिंदमः। धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥२-२२-५२॥
सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा। धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥२-२२-५३॥
तेनैव रथमुख्येन तरुणादित्यवर्चसा। धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥२-२२-५४॥
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ। प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥२-२२-५५॥
ततो गते भगवति कृष्णे देवकिनन्दने। जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा ॥२-२२-५६॥
संवर्धितौजसो भूयः कर्मणा तेन भारत। द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥२-२२-५७॥
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्। तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् ॥२-२२-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.