02.026
Pancharatra: Bhimas conquest of the east till Chedi. Regions include Panchala, Gandaki, Videha, Dasharna, Ashvamedha, and Chedi.
वैशम्पायन उवाच॥
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्। धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥२-२६-१॥
महताऽबलचक्रेण परराष्ट्रावमर्दिना। वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ॥२-२६-२॥
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत्। पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ॥२-२६-३॥
ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः। विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ॥२-२६-४॥
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम्। कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ॥२-२६-५॥
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परन्तपः। अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥२-२६-६॥
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः। सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥२-२६-७॥
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम्। जिगाय समरे वीरो बलेन बलिनां वरः ॥२-२६-८॥
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा। पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ॥२-२६-९॥
ततो दक्षिणमागम्य पुलिन्दनगरं महत्। सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥२-२६-१०॥
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः। शिशुपालं महावीर्यमभ्ययाज्जनमेजय ॥२-२६-११॥
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्। उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तपः ॥२-२६-१२॥
तौ समेत्य महाराज कुरुचेदिवृषौ तदा। उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ॥२-२६-१३॥
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते। उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ॥२-२६-१४॥
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्। स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ॥२-२६-१५॥
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः। सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥२-२६-१६॥