02.027
Pancharatra: Bhimas further conquest of the east till the ocean.
वैशम्पायन उवाच॥
ततः कुमारविषये श्रेणिमन्तमथाजयत्। कोसलाधिपतिं चैव बृहद्बलमरिंदमः ॥२-२७-१॥
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम्। अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥२-२७-२॥
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान्। मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ॥२-२७-३॥
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम्। सर्वमल्पेन कालेन देशं चक्रे वशे बली ॥२-२७-४॥
एवं बहुविधान्देशान्विजित्य पुरुषर्षभः। उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ॥ पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ॥२-२७-५॥
स काशिराजं समरे सुबन्धुमनिवर्तिनम्। वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ॥२-२७-६॥
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्। युध्यमानं बलात्सङ्ख्ये विजिग्ये पाण्डवर्षभः ॥२-२७-७॥
ततो मत्स्यान्महातेजा मलयांश्च महाबलान्। अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ॥२-२७-८॥
निवृत्य च महाबाहुर्मदर्वीकं महीधरम्। सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ॥ वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥२-२७-९॥
भर्गाणामधिपं चैव निषादाधिपतिं तथा। विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥२-२७-१०॥
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः। तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥२-२७-११॥
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः। वैदेहकं च राजानं जनकं जगतीपतिम् ॥ विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ॥२-२७-१२॥
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्। किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ॥२-२७-१३॥
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान्। विजित्य युधि कौन्तेयो मागधानुपयाद्बली ॥२-२७-१४॥
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्। तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ॥२-२७-१५॥
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह। तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ॥२-२७-१६॥
स कम्पयन्निव महीं बलेन चतुरङ्गिणा। युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥२-२७-१७॥
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत। ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥२-२७-१८॥
अथ मोदागिरिं चैव राजानं बलवत्तरम्। पाण्डवो बाहुवीर्येण निजघान महामृधे ॥२-२७-१९॥
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम्। कौशिकीकच्छनिलयं राजानं च महौजसम् ॥२-२७-२०॥
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ। निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥२-२७-२१॥
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्। ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ॥२-२७-२२॥
सुह्मानामधिपं चैव ये च सागरवासिनः। सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥२-२७-२३॥
एवं बहुविधान्देशान्विजित्य पवनात्मजः। वसु तेभ्य उपादाय लौहित्यमगमद्बली ॥२-२७-२४॥
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः। करमाहारयामास रत्नानि विविधानि च ॥२-२७-२५॥
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम्। काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ॥२-२७-२६॥
स कोटिशतसङ्ख्येन धनेन महता तदा। अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ॥२-२७-२७॥
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः। निवेदयामास तदा धर्मराजाय तद्धनम् ॥२-२७-२८॥