02.025
Pancharatra: Ajuna conquered regions till lake Manasa and returned.
वैशम्पायन उवाच॥
स श्वेतपर्वतं वीरः समतिक्रम्य भारत। देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ॥२-२५-१॥
महता संनिपातेन क्षत्रियान्तकरेण ह। व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् ॥२-२५-२॥
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्। पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥२-२५-३॥
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्। ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः ॥२-२५-४॥
सरो मानसमासाद्य हाटकानभितः प्रभुः। गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः ॥२-२५-५॥
तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान्। लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ॥२-२५-६॥
उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः। इयेष जेतुं तं देशं पाकशासननन्दनः ॥२-२५-७॥
तत एनं महाकाया महावीर्या महाबलाः। द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ॥२-२५-८॥
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन। उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ॥२-२५-९॥
इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः। प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ॥२-२५-१०॥
न चापि किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते। उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते ॥२-२५-११॥
प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किञ्चन। न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥२-२५-१२॥
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि। तद्ब्रवीहि करिष्यामो वचनात्तव भारत ॥२-२५-१३॥
ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः। पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥२-२५-१४॥
न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः। युधिष्ठिराय यत्किञ्चित्करवन्नः प्रदीयताम् ॥२-२५-१५॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् ॥२-२५-१६॥
एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम्। सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥२-२५-१७॥
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह। धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥२-२५-१८॥
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि। मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः ॥२-२५-१९॥
वृतः सुमहता राजन्बलेन चतुरङ्गिणा। आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥२-२५-२०॥