Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.028
Pancharatra: Sahadeva’s conquest of the south Regions.
वैशम्पायन उवाच॥
तथैव सहदेवोऽपि धर्मराजेन पूजितः। महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ॥२-२८-१॥
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः। मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥२-२८-२॥
अधिराजाधिपं चैव दन्तवक्रं महाहवे। जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ॥२-२८-३॥
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्। तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥२-२८-४॥
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा। तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥२-२८-५॥
नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत्। प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥२-२८-६॥
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्। ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥२-२८-७॥
चक्रे तत्र स सङ्ग्रामं सह भोजेन भारत। स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥२-२८-८॥
करांस्तेभ्य उपादाय रत्नानि विविधानि च। ततस्तैरेव सहितो नर्मदामभितो ययौ ॥२-२८-९॥
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ। जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥२-२८-१०॥
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ। तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥२-२८-११॥
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान्। ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ॥२-२८-१२॥
सैन्यक्षयकरं चैव प्राणानां संशयाय च। चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥२-२८-१३॥
ततो हया रथा नागाः पुरुषाः कवचानि च। प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥२-२८-१४॥
ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः। नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥२-२८-१५॥
जनमेजय उवाच॥
किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि। सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥२-२८-१६॥
वैशम्पायन उवाच॥
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः। श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः ॥२-२८-१७॥
नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत्। तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ॥२-२८-१८॥
तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा। प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ॥२-२८-१९॥
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम्। चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ॥२-२८-२०॥
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः। अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥२-२८-२१॥
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः। जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ॥२-२८-२२॥
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह। बभूवुरनभिग्राह्या योषितश्छन्दतः किल ॥२-२८-२३॥
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे। स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत ॥२-२८-२४॥
वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम। भयादग्नेर्महाराज तदा प्रभृति सर्वदा ॥२-२८-२५॥
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्। परीतमग्निना राजन्नाकम्पत यथा गिरिः ॥२-२८-२६॥
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः। त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ॥२-२८-२७॥
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक। पावनात्पावकश्चासि वहनाद्धव्यवाहनः ॥२-२८-२८॥
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि। यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ॥२-२८-२९॥
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्। विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ॥२-२८-३०॥
प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत। न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः ॥२-२८-३१॥
तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम्। सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ॥२-२८-३२॥
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया। वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ॥२-२८-३३॥
मया तु रक्षितव्येयं पुरी भरतसत्तम। यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति ॥ ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥२-२८-३४॥
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः। पूजयामास माद्रेयः पावकं पुरुषर्षभः ॥२-२८-३५॥
पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा। सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ॥२-२८-३६॥
प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम्। माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ॥२-२८-३७॥
त्रैपुरं स वशे कृत्वा राजानममितौजसम्। निजग्राह महाबाहुस्तरसा पोतनेश्वरम् ॥२-२८-३८॥
आहृतिं कौशिकाचार्यं यत्नेन महता ततः। वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ॥२-२८-३९॥
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे। राज्ञे भोजकटस्थाय महामात्राय धीमते ॥२-२८-४०॥
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै। स चास्य ससुतो राजन्प्रतिजग्राह शासनम् ॥२-२८-४१॥
प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च। ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ॥२-२८-४२॥
ततः शूर्पारकं चैव गणं चोपकृताह्वयम्। वशे चक्रे महातेजा दण्डकांश्च महाबलः ॥२-२८-४३॥
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्। निषादान्पुरुषादांश्च कर्णप्रावरणानपि ॥२-२८-४४॥
ये च कालमुखा नाम नरा राक्षसयोनयः। कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा ॥२-२८-४५॥
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा। तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः ॥२-२८-४६॥
एकपादांश्च पुरुषान्केवलान्वनवासिनः। नगरीं सञ्जयन्तीं च पिच्छण्डं करहाटकम् ॥ दूतैरेव वशे चक्रे करं चैनानदापयत् ॥२-२८-४७॥
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः। अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् ॥२-२८-४८॥
अन्ताखीं चैव रोमां च यवनानां पुरं तथा। दूतैरेव वशे चक्रे करं चैनानदापयत् ॥२-२८-४९॥
भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः। प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने ॥ विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः ॥२-२८-५०॥
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्। तच्च कालकृतं धीमानन्वमन्यत स प्रभुः ॥२-२८-५१॥
ततः सम्प्रेषयामास रत्नानि विविधानि च। चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च ॥२-२८-५२॥
वासांसि च महार्हाणि मणींश्चैव महाधनान्। न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् ॥२-२८-५३॥
एवं निर्जित्य तरसा सान्त्वेन विजयेन च। करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः ॥२-२८-५४॥
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ। कृतकर्मा सुखं राजन्नुवास जनमेजय ॥२-२८-५५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.