02.029
Pancharatra: Nakula’s conquest of the west. Regions.
वैशम्पायन उवाच॥
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा। वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ॥२-२९-१॥
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम्। उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ॥२-२९-२॥
सिंहनादेन महता योधानां गर्जितेन च। रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥२-२९-३॥
ततो बहुधनं रम्यं गवाश्वधनधान्यवत्। कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ॥२-२९-४॥
तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः। मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् ॥२-२९-५॥
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः। शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ॥२-२९-६॥
तथा मध्यमिकायांश्च वाटधानान्द्विजानथ। पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ॥२-२९-७॥
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः। सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ॥२-२९-८॥
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्। वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥२-२९-९॥
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम्। उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ॥ द्वारपालं च तरसा वशे चक्रे महाद्युतिः ॥२-२९-१०॥
रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः। तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ॥२-२९-११॥
तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः। स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ॥२-२९-१२॥
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम्। मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ॥२-२९-१३॥
स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते। रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः ॥२-२९-१४॥
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान्। पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ॥२-२९-१५॥
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान्। न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ॥२-२९-१६॥
करभाणां सहस्राणि कोशं तस्य महात्मनः। ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ॥२-२९-१७॥
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्। ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥२-२९-१८॥
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम्। विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ॥२-२९-१९॥