Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.030
Core-Pancharatra: Wealth accumulates because of righteous rule. Yudhisthira decides to perform a sacrifice.
वैशम्पायन उवाच॥
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्। शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥२-३०-१॥
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्। निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥२-३०-२॥
सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक्। विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ॥२-३०-३॥
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्। राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ॥२-३०-४॥
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्। सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥२-३०-५॥
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्। अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ॥२-३०-६॥
धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान्। कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥२-३०-७॥
स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः। विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥२-३०-८॥
सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन्। यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ॥२-३०-९॥
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः। ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ॥२-३०-१०॥
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह। भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥२-३०-११॥
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा। बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ॥२-३०-१२॥
उच्चावचमुपादाय धर्मराजाय माधवः। धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥२-३०-१३॥
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्। नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ॥२-३०-१४॥
असूर्यमिव सूर्येण निवातमिव वायुना। कृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥२-३०-१५॥
तं मुदाभिसमागम्य सत्कृत्य च यथाविधि। सम्पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥२-३०-१६॥
धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः। भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ॥२-३०-१७॥
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते। धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥२-३०-१८॥
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत। उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ॥२-३०-१९॥
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया। अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥२-३०-२०॥
स दीक्षापय गोविन्द त्वमात्मानं महाभुज। त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥२-३०-२१॥
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो। अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥२-३०-२२॥
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्। त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ॥ सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥२-३०-२३॥
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते। नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥२-३०-२४॥
युधिष्ठिर उवाच॥
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम। यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥२-३०-२५॥
वैशम्पायन उवाच॥
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह। ईहितुं राजसूयाय साधनान्युपचक्रमे ॥२-३०-२६॥
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः। सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥२-३०-२७॥
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः। तथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥२-३०-२८॥
अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि। समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥२-३०-२९॥
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः। अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥२-३०-३०॥
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः। मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ॥२-३०-३१॥
तद्वाक्यसमकालं तु कृतं सर्वमवेदयत्। सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ॥२-३०-३२॥
ततो द्वैपायनो राजन्नृत्विजः समुपानयत्। वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥२-३०-३३॥
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः। धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥२-३०-३४॥
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः। पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥२-३०-३५॥
एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ। बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥२-३०-३६॥
ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम्। शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ॥२-३०-३७॥
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः। रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥२-३०-३८॥
तत आज्ञापयामास स राजा राजसत्तमः। सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ॥२-३०-३९॥
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्। उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥२-३०-४०॥
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि। विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥२-३०-४१॥
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्। आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ॥२-३०-४२॥
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्। दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥२-३०-४३॥
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः। जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥२-३०-४४॥
भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा। क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ॥ अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ॥२-३०-४५॥
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः। सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥२-३०-४६॥
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्। बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ॥ सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ॥२-३०-४७॥
तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः। कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥२-३०-४८॥
भुञ्जतां चैव विप्राणां वदतां च महास्वनः। अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ॥२-३०-४९॥
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति। एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः ॥२-३०-५०॥
गवां शतसहस्राणि शयनानां च भारत। रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ॥२-३०-५१॥
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः। पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥२-३०-५२॥
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्। नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ॥२-३०-५३॥
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च। भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥२-३०-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.