02.031
Core-Pancharatra: All the dignitaries arrive to participate in the sacrifice.
वैशम्पायन उवाच॥
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः। भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥२-३१-१॥
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः। संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ॥२-३१-२॥
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ। द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥२-३१-३॥
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत। समुपादाय रत्नानि विविधानि महान्ति च ॥२-३१-४॥
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः। दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥२-३१-५॥
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः। गान्धारराजः सुबलः शकुनिश्च महाबलः ॥२-३१-६॥
अचलो वृषकश्चैव कर्णश्च रथिनां वरः। ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥२-३१-७॥
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः। अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥२-३१-८॥
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः। प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ॥२-३१-९॥
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः। पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥२-३१-१०॥
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा। आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ॥२-३१-११॥
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा। कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ॥२-३१-१२॥
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते। विराटः सह पुत्रैश्च माचेल्लश्च महारथः ॥ राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥२-३१-१३॥
शिशुपालो महावीर्यः सह पुत्रेण भारत। आगच्छत्पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्मदः ॥२-३१-१४॥
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः। गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥२-३१-१५॥
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च। वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥२-३१-१६॥
एते चान्ये च बहवो राजानो मध्यदेशजाः। आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ॥२-३१-१७॥
ददुस्तेषामावसथान्धर्मराजस्य शासनात्। बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥२-३१-१८॥
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम्। सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥२-३१-१९॥
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्। सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ॥२-३१-२०॥
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान्। सुखारोहणसोपानान्महासनपरिच्छदान् ॥२-३१-२१॥
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः। हंसांशुवर्णसदृशानायोजनसुदर्शनान् ॥२-३१-२२॥
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः। बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ॥२-३१-२३॥
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्। वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ॥२-३१-२४॥
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः। भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ॥२-३१-२५॥