02.033
Pancharatra: Instructed by Bhishma, Krishna is offered the highest honour.
वैशम्पायन उवाच॥
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह। अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः ॥२-३३-१॥
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः। समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ॥२-३३-२॥
समेता ब्रह्मभवने देवा देवर्षयो यथा। कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥२-३३-३॥
इदमेवं न चाप्येवमेवमेतन्न चान्यथा। इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् ॥२-३३-४॥
कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते। अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ॥२-३३-५॥
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम्। विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥२-३३-६॥
केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः। रेमिरे कथयन्तश्च सर्ववेदविदां वराः ॥२-३३-७॥
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः। आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ॥२-३३-८॥
न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः। अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥२-३३-९॥
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्। तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥२-३३-१०॥
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप। नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ॥२-३३-११॥
सस्मार च पुरावृत्तां कथां तां भरतर्षभ। अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् ॥२-३३-१२॥
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन। नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥२-३३-१३॥
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः। प्रतिज्ञां पालयन्धीमाञ्जातः परपुरञ्जयः ॥२-३३-१४॥
संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्। अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥२-३३-१५॥
इति नारायणः शम्भुर्भगवाञ्जगतः प्रभुः। आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥२-३३-१६॥
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः। परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥२-३३-१७॥
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते। सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥२-३३-१८॥
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम्। आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥२-३३-१९॥
इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित्। हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ॥२-३३-२०॥
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः। महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥२-३३-२१॥
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्। क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥२-३३-२२॥
आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर। स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा ॥२-३३-२३॥
एतानर्हानभिगतानाहुः संवत्सरोषितान्। त इमे कालपूगस्य महतोऽस्मानुपागताः ॥२-३३-२४॥
एषामेकैकशो राजन्नर्घ्यमानीयतामिति। अथ चैषां वरिष्ठाय समर्थायोपनीयताम् ॥२-३३-२५॥
युधिष्ठिर उवाच॥
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन। उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥२-३३-२६॥
वैशम्पायन उवाच॥
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य भारत। वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥२-३३-२७॥
एष ह्येषां समेतानां तेजोबलपराक्रमैः। मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥२-३३-२८॥
असूर्यमिव सूर्येण निवातमिव वायुना। भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥२-३३-२९॥
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्। उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥२-३३-३०॥
प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा। शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥२-३३-३१॥
स उपालभ्य भीष्मं च धर्मराजं च संसदि। अपाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥२-३३-३२॥