02.032
Pancharatra: Guests bring many gifts.
वैशम्पायन उवाच॥
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः। अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ॥ भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ॥२-३२-१॥
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः। इदं वः स्वमहं चैव यदिहास्ति धनं मम ॥ प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः ॥२-३२-२॥
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः। युयोज ह यथायोगमधिकारेष्वनन्तरम् ॥२-३२-३॥
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्। परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ॥२-३२-४॥
राज्ञां तु प्रतिपूजार्थं सञ्जयं संन्ययोजयत्। कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती ॥२-३२-५॥
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे। दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ॥ तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ॥२-३२-६॥
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः। नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ॥२-३२-७॥
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित्। दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ॥२-३२-८॥
सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम्। द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् ॥२-३२-९॥
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्। रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् ॥२-३२-१०॥
कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात्। यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ॥२-३२-११॥
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः। लोकराजविमानैश्च ब्राह्मणावसथैः सह ॥२-३२-१२॥
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा। विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः ॥२-३२-१३॥
राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः। अशोभत सदो राजन्कौन्तेयस्य महात्मनः ॥२-३२-१४॥
ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः। षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ॥ सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ॥२-३२-१५॥
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः। रत्नोपहारकर्मण्यो बभूव स समागमः ॥२-३२-१६॥
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः। तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ॥२-३२-१७॥
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः। ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः ॥२-३२-१८॥