02.034
Pancharatra: Shishupala objects for honouring Krishna first, though he is not a king.
शिशुपाल उवाच॥
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु। महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥२-३४-१॥
नायं युक्तः समाचारः पाण्डवेषु महात्मसु। यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ॥२-३४-२॥
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः। अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ॥२-३४-३॥
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया। भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥२-३४-४॥
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्। अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥२-३४-५॥
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ। वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥२-३४-६॥
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्। द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥२-३४-७॥
आचार्यं मन्यसे कृष्णमथ वा कुरुपुङ्गव। द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥२-३४-८॥
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन। द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ॥२-३४-९॥
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः। अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥२-३४-१०॥
अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः। किं राजभिरिहानीतैरवमानाय भारत ॥२-३४-११॥
वयं तु न भयादस्य कौन्तेयस्य महात्मनः। प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥२-३४-१२॥
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥२-३४-१३॥
किमन्यदवमानाद्धि यदिमं राजसंसदि। अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥२-३४-१४॥
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्। को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् ॥ योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ॥२-३४-१५॥
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्। कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ॥२-३४-१६॥
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः। ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ॥२-३४-१७॥
अथ वा कृपणैरेतामुपनीतां जनार्दन। पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ॥२-३४-१८॥
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे। हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ॥२-३४-१९॥
न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते। त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥२-३४-२०॥
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्। अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥२-३४-२१॥
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः। वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥२-३४-२२॥
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्। निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥२-३४-२३॥